SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ अध्यात्म० त्वादिदोषपरिजिहीर्षयैव प्रवृत्तत्वात् प्रवचनभक्त्यादिको गुण एव, न तु दोष इति द्रष्टव्यम् । दृष्ट्वा च तादृशं का- परीक्षावृe रणं तथाऽऽचरणीयं, न तु स्वरसतस्तत्र प्रवृत्त्युत्तरं यादृच्छिकालम्बनमुद्भावनीयं; तादृशालम्बनस्य प्रमादाचरणपर्यवसितत्वात । यदागमः। "आलंबणाण भरिओ, लोगो जीवस्स अजउकामस्स । जं जं पिच्छइ लोए, तं तं आलंबणं कुणइत्ति ॥१॥" यत्तु द्रव्यलिङ्गे भावलिङ्गाध्यारोप इव प्रतिमादावप्यर्हदभेदारोपो न युक्तः, आरोपस्य मिथ्यात्वादिति लुम्पकस्य मतं तदपमतं, तेनापि मुखवस्त्रिकादौ गुरुपादकल्पनयैव वन्दनकादिदानात् । “चित्तभित्तिं ण णिज्झाए, णारिंवा सुअलंकियं,” इत्याद्यागमबाधप्रसङ्गाच्च । न च तत्र नारीपदस्य नानार्थकत्वान्नानुपपत्तिर्न हि तटस्थतया चित्रितकामिनी प्रतिसन्दधानस्य कामविकारादिप्रादुर्भवोऽपि तु साक्षात्कामिनीमेव पुरःस्फुरन्तीमाकलयत इति । यथा चात्रा शुभसङ्कल्पस्य पापजनकत्वं तथा प्रतिमादौ शुभसङ्कल्पस्य पुण्यजनकत्वमपीति किं जाल्मेन सहाधिकविचारणया। लायत्तु द्रव्ये भावाभेदस्तात्विक एव स्थापनायां स्थाप्याभेदस्तु न तथेति। तन्न। तद्धर्मविशिष्टस्यान्यधर्मविशिष्टेन सहातद्भाव भावादन्यथा तद्विषयकोपचारस्य निर्मूलकत्वप्रसङ्गानापि तृतीयो द्रव्यलिङ्गस्य भावलिङ्गाविनाभावित्वाभावेन तदनुमापकत्वासंभवात्तदविनाभाविसुविहितद्रव्यलिङ्गस्य च तत्राप्रतिसन्धानान्नापि चतुर्थस्तद्रव्यलिङ्गस्य येन सह संबन्धग्रहस्तत्रासाधुत्वज्ञाने जाग्रति साधुत्वप्रकारकस्मरणासंभवात् , साध्वन्तरेऽगृहीतसंबन्धकस्य च तस्य तत्स्मारकत्वायोगादथ पार्श्वस्थादिलिङ्गदर्शने सद्यो(सदृश)र्दशनोद्बोधितसंस्कारसध्रीचीनपूर्वानुभवबलादेव विशिष्टसाधुगुणस्मरणसंभव इति चेन्न । शीतलविहारिणि वेषमात्रेण सादृश्यप्रतिसन्धानासंभवात्तद्भिन्नत्वे सति तद्वत्ति भूयोधर्मवत्त्वेन सादृश्यव्यव-140 SERSEOFOOSE G36090GG OG IGOG33630000 Jain Education HAHIbnal For Private & Personel Use Only HOMw.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy