________________
000000000000
धूलिं प्रक्षिपन्नवगन्तव्यो विशिष्टभक्त्या भाषितयोस्तादृशस्तुतिप्रयोजिकयोः स्थापनायाचनादिसत्यासत्यामृषाभाषयोः श्रेयोमूलत्वात् स्थाप्यस्थापनयोरुपमेयोपमानयोश्च भाषाविशेषेण भेदतिरोधानतारतम्येणैव भक्तितारतम्योद्भवदर्शनादत एव लाक्षणिकप्रयोगेऽपि सारोपासाध्यवसानामूलकयोस्तयोः स्फुट एव विशेष इति । तथा च द्रव्यलिङ्ग भावलिङ्गाध्यारोपात्तत्रातिशयितत्वप्रतिसन्धानेऽवर्जनीयसन्निधिकतया तद्वत्यष्यतिशयितत्वप्रतिसंधाने तदनुमतिप्रयुक्तो।
दोपः कथकारं वारणीयः, इदमेवाभिप्रेत्योक्तं । “णियमा जिणेसु य गुणा, पडिमा उद्दिस्स जे मणे कुणइ । अगुकणे य वियाणंतो, के णमउमणे गुणं काउं॥१॥" अथ यद्धर्मावच्छेदेनोत्कर्षवत्त्वज्ञानं तद्धर्मावच्छेदेनैव तदनुमति
रिति चेत्तथापि त्वदुक्तरीत्या पार्श्वस्थत्वाद्यवच्छेदेनापि साध्वभेदाध्यारोपादिसामग्र्योत्कर्षवत्त्वज्ञानात्तदवच्छेदानुमत्या कथं न प्रमादोपबृंहणं । अतएवोक्तं । "किइकम्मं च पसंसा, सुहसीलजणम्मि कम्मबंधो य । जे जेपमायठाणा, ते ते उवबूहिआ हुंति त्ति'। ये तु तद्विषयककृतिकर्मप्रशंसे कारणप्राप्ते ते तु स्वारसिकतदुत्कर्षज्ञानादिजनकतया न तद्गतप्रमादोपबृंहणप्रवणे अत एवेत्थं तद्विधानमस्मार्षुः “मुक्कधुरा संपागड,सेवी चरणकरणपन्भटे । लिङ्गावसे समित्ते, व कीरइ तं अओ वुच्छं ॥१॥ वायाइ नमुक्कारो, हत्थुस्सेहो य सीसनमणं च । संपुच्छअच्छाथोभभ वंदणं वंदणं वावि
॥२॥ परियायपरिसपुरिसे, खित्तं कालंच आगमणच्चा । कारणजाए जाए, जहारिहं जस्स जं जोग्गं ॥३॥परियायबंभचेरं, परिस विणीयासि(इ) पुरिस णच्चा वा कुलकज्जादायत्ता, आघवउ गुणागमसुअं वा॥४॥ एयाइँ अकुवंतो, जहारिहं अरिहदेसिए मग्गे ।ण हवइ पवयणभत्ती, अभत्तिमंतादयो दोसत्ति ॥५॥ तथा च कारणिकतद्वन्दनप्रवृत्तेरभक्तिम
0000000000OOOOOOO90090€
0000
JainEducational
For Private Personal Use Only
ww.jainelibrary.org