SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ अध्यात्म ॥२९॥ MOOOOOGGEROOOOOOOOOO प्रवर्त्तमानस्य चायोग्ये योग्याध्यवसायरूपतयाऽशुभसङ्कल्परूपतया प्रत्युत क्लिष्टकर्मबन्धकारणत्वादत एव द्रव्य- परीक्षावृ० लिङ्गप्रतिमयोः सावद्यनिरवद्यक्रियोभयसत्त्वासत्त्वाभ्यां विशेष आवेदितो भवत्युक्तंच "जइवि अ पडिमा उ जहा, मुणिगुणसंकप्पकारणं लिंगं । उभयमवि अत्थि लिंगे, णय पडिमासूभयं अथिति ॥१॥” इदं खल्वत्र तात्पर्य 'यत्प्रतिमायामहबुद्धिः स्थापनाभावाभेदाध्यवसायपर्यवसायिनी सा च स्वालम्बनस्य प्रतिष्ठादिरूपामेव योग्यतामपेक्ष्य प्रश-16 स्यते । या तु पार्श्वस्थादिद्रव्यलिङ्गे साधुबुद्धिः, सा तु निरवद्यक्रियाघटितं द्रव्यत्वमेवानपेक्ष्य प्रवर्त्तमाना विपर्यासरूपतया कथं प्रशस्यतां । अथ द्रव्यलिङ्गे द्रव्यत्वाभाववचनं कुतो न व्याहन्यत इति चेन्नात्र द्रव्यपदस्याप्रधानार्थकत्वादुपचारतोऽप्रधानार्थकस्यापि द्रव्यपदस्य क्वचिदर्शनात्तदुक्तं पञ्चाशके "अप्पाहन्नेवि इहं, कत्थइ दिहो उ दबसदोत्ति। अंगारमद्दओ जह, दबायरि ओ सयाऽभवोत्ति" नापि द्वितीयोऽयोग्यस्य योग्याभेदाध्यारोपाविषयत्वादेवान्यथा विडम्बक लिङ्गस्याप्युपास्यत्वापत्तेः, वेषवतो योग्यत्वेऽपि वेषो नायोग्य इति चेन्न, तत्रापि प्रवचनहीलनानुगुणत्वाद्ययोग्यतासत्त्वाच्चौरसंसर्गिणोऽपि चौरप्रायत्वाच्चापि च गुणवदभेदाध्यारोपस्य तद्गतोत्कर्षवत्त्वप्रतीतिः प्रयोजनमत एव गङ्गायां घोष इत्यत्र गङ्गापदस्य गङ्गातीरे लक्षणया तत्र गङ्गाभेदाध्यवसायादेव शैत्यपावनत्वादिकं प्रतीयत इति शास्त्रीयः प्रवादोन्यथा गङ्गायां घोष इति प्रयोगस्य गङ्गातटे घोष इति प्रयोगादविशेषापत्तेरत एव रूपकालङ्कारादिगर्भतत्त-19 दृत्तघटितस्तुतिस्तोत्रादिप्रणयनोद्भुतप्रभूतभक्तिप्रारभाराद्विपुलनिर्जरालाभो भगवतः स्तुतिकृताम् । एतेन प्रतिमायां ॥ २९॥ तीर्थकरोऽयं मोक्षदो भवत्वित्यादि मृषाभाषाप्रयोगः कर्मवन्धायेति वदन् लुम्पकः स्वयमेव स्वशिरसि भूतायत्त इव GOOGாருருருருருருருருதுருசGOOD Jan Education For Private Personel Use Only jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy