SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 9000000000000000000000000 इति चेन्मैवं । दवजिणा जिणजीवा इत्यविशिष्टोक्तेरहज्जीवरूपाया भावार्हत्त्वोपादानत्त्वयोग्यताया आकालमैकरूपतयैवाकलनात् , सहकारिविशेषसन्निधानजनितातिशयरूपाणामेकभविकबद्धायुष्काभिमुखनामगोत्रभावयोग्यतायामेव तत्तव्यवहारकार्यजनकत्वाद्विवेचितं चेदं द्रव्यालोके तथा च "यथातिशयितद्रव्य एव भावाध्यारोपस्तथातिशयितस्थापनायामपीति प्रतिपत्तव्यं, अतिशयश्च द्रव्ये भावजननादिमुख्यादिः, स्थापनायां तु विहितत्वप्रतिसंधानादिरविहिताचरणे आज्ञाविराधनादिदोषसंभवादिति द्रष्टव्यं । एतेन प्रतिमायां सावधक्रियारूपदोषाभावेऽधर्माजननवन्निरवद्यक्रियाभावे धर्मजननमपि न युक्तं । तदुक्तं “जह सावजा किरिया, नत्थि यपडिमासु एवमियरावि । तयभावे णत्थि फलं, अह हो उ अहेउगं होउत्ति ॥१॥" प्रत्युक्तं । न हि नमस्करणीयगता क्रिया नमस्कर्तुः फलं जनयतीति स्याद्वादिनः सगिरन्ते, अपि तु तमालम्ब्य प्रवृत्तस्वगतः शुभसङ्कल्प एव स्वस्य शुभफलप्रद इति तदुक्तं-विंजिण सिद्धा दिति फलं पूआए केण वा पवन्नमिणं । धम्माधम्मणिमित्तं फलं इहं सबजीवाणंति ॥१॥" ननु तर्हि प्रतिमादयः कथमुप कुर्वन्तीति चेत् प्रशमरसनिमग्नमित्यादिभगवद्गुणभावनाजनितमनोविशुद्धिहेतुतयेति गृहाण उक्तंच “कामं उभयाभावो, तहवि फलं अत्थिमणविसुद्धीए । तीए पुण मणविसुद्धी, कारणं होति पडिमाओत्ति ॥२॥" अथैवं पार्श्वस्थादिद्रव्यलिङ्गमपि मुनिगुणसङ्कल्पकारणतया मनःशुद्धये वन्दनीयमस्तु इति चेत्कोऽयं संकल्पः? किं द्रव्ये भावाध्यारोपरूप उत स्थापनायां तदारोपरूपः, आहोस्वित्तटस्थतयैव भावानुमानमथ वा भावानुस्मरणं । तत्र न प्रथमः, प्रतिमायामिव द्रव्यलिङ्गे भावकारणत्वघटकरूपनिरवद्यक्रियाया योगमनपेक्ष्य प्रशस्तभावाध्यारोपाप्रवृत्तेः । 00000000 Jan Educate national For Private Personel Use Only GTww.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy