________________
अध्यात्म
॥२८॥
இருருருருROCERSOCCE
पुनः पुनदर्शने तत्र ताप्यनिश्चयसम्भवादपूर्वदृष्टे तु दोषप्रतिसन्धानादिविरहे तत्र गुणसम्भावनासम्भवादत एव तथैवक परीक्षावृ० तत्र सहसावन्दनादिप्रवृत्तिरुक्तं च “अपुर्व दट्ठणं, अब्भुटाणं तु होइ काय । साहुंमि दिहपुवे, जहारिहं जस्स जंजोग्गं ति ॥१॥" तथा च दोषवत्त्वेन ज्ञात एव गुणवत्त्वेन रुचिरनुचितेति फलितं उक्तंच “जह वेलंबगलिंग, जाणंतस्स णमओ हवइ दोसो । णिद्धंधसत्ति णाऊण वंदमाणे धुवं दोसोत्ति ॥१॥' अत एव प्रतिमायामहदादेरिव01 तद्वेष साध्वन्तरगुणाध्यारोपेण नमस्कारोपि प्रत्युक्तः, सावद्यकर्मयुक्ततया तस्याध्यारोपाविषयत्वादित्याहुः । स्यादेतत् सावद्यकर्मयुक्तता न साधुत्वाभावव्याप्यत्वेन प्रतिसंहिता साधुत्वाध्यारोपप्रतिबन्धिका विशेषदर्शनतोप्याहार्यारोपप्रवृत्ते|रन्यथा प्रतिमादावप्यहत्त्वाभावव्याप्यपौद्गलिकत्वज्ञाने तदभेदाध्यवसायासंभवादिति चेन्न, आहार्यारोपजनिकाया इच्छाया विधिनियन्त्रिततयैव प्रवृत्तेन च विधियोग्यतामपुरस्कृत्य प्रवर्त्तते कथमन्यथा जन्मादिसमयं विना शकादयोऽपि द्रव्यभगवज्जीवेषु भावभगवत्त्वमध्यारोप्य शक्रस्तवादिकं पठेयुरथ द्रव्यशब्दो योग्यतायामेव रूढस्तदुक्तं पञ्चाशके । “समयम्मि दबसद्दो, पायं जं जोग्गयाइ रूढोत्ति । णिरुवचरिओ अबहुहा, पओगभेओवलंभाओ॥शामिउपिंडो दबघडो, सुसावगोतय दवसाहुत्ति । साहू य दवदेवो, एमाइ सुए जओभणियं ति ॥२॥” तथा च येन पर्यायेण भाविभूतभावजनकत्वं वस्तुनस्तमेव पर्यायं पुरस्कृत्य तस्य द्रव्यत्वव्यपदेशः प्रवर्तते, अत एव शय्यासंस्तारकादिग- ॥२८॥ तस्यावश्यकज्ञशरीरस्य द्रव्यावश्यकत्वं, न तु लोष्टादिपर्यायेण परिणंस्यत इति तत्र तत्र तद्व्यवस्थितमिति तत्पर्यायविशिष्ट एव द्रव्ये कारणे कार्योपचाररूपो भावाध्यारोपः सङ्गच्छते । कथं पुनरयमेव न्यायः स्थापनायामायोज्यत,
00000000000000000000000000
Jain Education d
hahal
For Private Personal use only
Jainelibrary.org