SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 0000000000000000000000004 रूप्यं शुद्धं टकं विषमाहताक्षरमिति प्रत्येकबुद्धादिषु तृतीयो, रूप्यं शुद्धं टकं समाहताक्षरमिति चतुर्थः शुद्धवेषसाधुष्वयमेव चाविकलार्थक्रियाकारितयोपादेयो, भावलिङ्गस्य सर्वत्र यथावन्निश्चेतुमशक्यत्वात्तर्हि द्रव्यलिङ्गमेव वन्द-10 नीयमस्त्विति चेद्भवेदेव, यत्र गुणाधिकत्वं प्रतिसन्धीयते, कस्तत्प्रतिसन्धानोपाय इति चेदालयविहारादिव्यवहारपाटवोपदर्शनमित्याकलय यदागमः "आलएणं विहारेणं ठाणाचंकमणेण यसको सुविहिओ णाउं भासावेणइएण यत्ति" लिंगिनि पार्श्वस्थत्वादि प्रतिसन्धाने तु तदवन्दनीयमेवाथातीर्थकरत्वप्रतिसन्धानेऽपि प्रतिमावन्दनादिवासाधुत्वप्रतिसन्धानेऽपि तल्लिङ्गवन्दनादध्यात्मशुद्धिरबाधितैव । तदुक्तं “तित्थयरगुणा पडिमासु णत्थि णिस्स सयं वियाणंतो। तित्थयरंति णमं तो, सो पावइ णिजरं विउलं ॥१॥लिंगं जिणपन्नत्तं, एव णमंतस्स णिज्जरा विउला । जइवि गुणविप्पहीणं, वंदइ अझप्पसोहीएत्ति ॥२॥" मैवं शकिष्टास्तल्लिङ्गवन्दने तद्गतसावधक्रियानुमोदनावद्य-16 प्रसङ्गात् , प्रतिमायां तु तदभावादुक्तंच “सन्ता तित्थयरगुणा, तित्थयरे तेसिमंतु अज्झपं। ण य सावज्जा किरिया, इयरेसु धुवासमणुमन्नत्ति ॥ ३॥" अयं भावो द्रव्यलिङ्गं हि तद्वति स्वत एव गुणवत्त्वप्रतिसन्धापकतया स्वसमानाधिकरणगुणवत्त्वप्रतिसन्धापकतया वा, न परकर्त्तव्यतायामुपयोगि सत्तद्विषयकमुत्साहमाधायाध्यात्मशुद्ध्यै प्रभविष्णु न तु प्रतिमादिवत् तटस्थतयैव स्वसदृशभावस्मारकतया, तथा च द्रव्यलिङ्गं सावद्यस्वाश्रयविषयकोत्साहाधाय-10 कतया धर्मप्रतिपन्थि न तु प्रतिमा तत्र गुणत्वाज्ञानादेतेन प्रतिमां नमस्कुर्वतामदेवेदेवसंज्ञेति वदतो लुम्पकस्य शिरसि 2 दत्तः प्रहारः । अथैवं पार्श्वस्थत्वाद्यप्रतिसन्धानदशायामपि तल्लिङ्गवन्दनात् तत्सावधक्रियानुमतिप्रसङ्ग इति चेन्न, 0000000000000000000000000 Jain Education fonal For Private Personal Use Only XMw.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy