________________
DOO
अध्यात्म०
॥२७॥
000C669&00000000000
परमचारित्रं तदुक्तम् ॥ द्रव्यसङ्घहे " बहिरमन्तरकिरियारोहो भवकारणप्पणासड्डम् । नाणिस्स जं णिजुत्तं परीक्षा वृ० तं परमं सम्मचारित्तं ति ॥१॥” तच्च कथं बहिःक्रियायां संभवतीति चेन्न, तदानीमपि हेतुभूतान्तर्विकल्पो-61 पक्षयादेव केवलोपलम्भादिति शतशः प्रतिपादितत्वात् , बहिःक्रियायास्तद्विरोधित्वे च सूक्ष्मकायक्रियाया अपि तद्विरोधित्वप्रसङ्गात् , स्थूलक्रियात्वेन तद्विरोधित्वेऽतिप्रसङ्गात् , मोहपूर्वकक्रियात्वेन विरोधित्वे च मोहत्वेनैव तथात्वीचित्यादिति निश्चयनयनिष्कर्षात् तस्मात् । स्वपरिणामस्यैव स्वकार्यसिद्धिक्षमत्वाद्वाह्ययोगानामकिञ्चित्करतेति स्थितम् । यदाहुः “परमरहस्समिसीणं, समत्तगणिपिडगझरियसाराणं । परिणामियं पमाणं, निच्छयमवलंबमाणाणं ति ॥१॥" ॥ ५७॥ उक्तमेवे विशिष्य विवेचयतिसिद्धी णिच्छयओ च्चिय, दोण्हं संजोगओअछेयत्तम्। कत्थइ कत्थइ दोण्हवि,उवओगो तुल्लवं चेव॥५८॥
सिद्धिनिश्चयत एव द्वयोः संयोगतश्च छेकत्वम् । कुत्रचित् २ द्वयोरपि उपयोगस्तुल्यवदेव ॥ ५८ ॥ - इह हि निश्चयव्यवहारयोर्बलवत्त्वावलवत्त्वे विचार्यमाणे सिद्धिस्तावदात्मनो मोक्षलक्षणा नैश्चयिके भावलिङ्गेनैवेति निश्चय एव बलवान् , नमस्कारणाहतारूपं छेकत्वं भावलिङ्गसध्रीचीन द्रव्यलिङ्गस्यैवेति तस्यापि बलवत्त्वं तदुक्तं
॥२७॥ वंदनकनियुक्तौ । “रूप्पं टंक विसमाहयक्खरंणविय रूवगो च्छेओ। दुण्हंपि समाओगे, रूवो च्छेयत्तणमुवेइ ॥१॥ रूप्पं । पत्तेयबुहा, टंक जे लिंगधारिणो समणा । दबस्स य भावस्स य, छेओ समणो समाओगेत्ति ॥ २॥” अत्र हि रूप्यमशुद्धं टकं विषमाहताक्षरमिति चरकादिषु प्रथमो भङ्गो रूप्यमशुद्धं टकं समाहताक्षरमिति द्वितीयः। पावस्थादिषु
00000000000000000004
Jain Education in
For Private Personal Use Only