SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ நடுருருருருருருருருருமாரு प्रवृत्तिरेकदेशव्रतविकल्परूपा रागाविनाभाविनी निर्विकल्पकसमाधिविरोधिनीति कथं पुनरसौ न सौमनस्यप्रतिपन्थी समाधीच्छयान्यथा वा समाधेरिव रक्षणेच्छयाऽन्यथा वा जीवरक्षणादिप्रवृत्तेर्वीतरागत्वाविरोधित्वात्, त्रिगुप्तिसाम्रज्यं पुनः केवलज्ञानसामग्रीभूतमवश्यमेष्टव्यमेव । तच्चेदं आर्तरौद्रध्यानानुबन्धिकल्पनाजालवियोगः परममाध्यस्थ्यपरिणतिर्योगनिरोधावस्थाभावी, सर्वथा मनोनिरोधश्चेति त्रिधा मनोगुप्तिर्वाग्गुप्तिरपि मौनावलम्बनेन सर्वथा वा तन्निरोधरूपा, मुखवस्त्राच्छादितमुखेन संभाषणादिना वाक्संवृत्तिरूपा वा, कायगुप्तिरप्युपसर्गाद्युपनिपातेऽपि निश्च-10 लता योगनिरोधे सर्वथा चेष्टापरिहारो वा शयनासनादिषु सिद्धान्तोक्तयतनाप्रकारेण चेष्टानियमरूपा च तदुक्तं "विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठतम् । आत्मारामं मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता ॥१॥ संज्ञादिपरिहारेण, यन्मीनस्यावलम्बनम् । वाग्वृत्तेः संवृतिर्वा या, सा वाग्गुप्तिरिहोच्यते ॥२॥ उपसर्गप्रसङ्गेऽपि, कायोत्सर्गजुषो मुनेः। स्थिरीभावः शरीरस्य, कायगुप्तिर्निगद्यते ॥ ३ ॥ शयनासननिक्षेपादानचक्रमणेषु च । स्थाने च चेष्टानियमः, कायगुप्तिस्तु सा परा॥४॥" अथात्रापि प्रवृत्तिपरिणामरूपा गुप्तिर्निवृत्तिपरिणामविरोधिनीति चेद्धन्त तर्हि निवृत्तिपरिणामोऽपि मनोयोगप्रवृत्तिपरिणाम एवेति स्वमपि स्वयं विन्ध्यात् । परप्रवृत्तिः स्वप्रवृत्तिविरोधिनीतिचेन्न, शुक्लध्यानसंपृक्तान्तर्जल्पविकल्पस्यापि तथात्वापत्तेर्बाह्यप्रवृत्तिस्तथेतिचेन्न, प्रवृत्तेरबाह्यत्वाद्वाह्यविषयत्वस्य च निर्वस्तुमशक्यत्वादेकदेशनिवृत्तिः सर्वनिवृत्तिविरोधिनीति चेन्न, कायेन योगनिवृत्तेस्तदानीमभावाद्विकल्पनिवृत्तेश्चान्तः परिणाममात्रसाध्यत्वादथ शुभाशुभवाकायव्यापाररूपबाह्यक्रियायाःशुभाशुभमनोविकल्परूपाभ्यन्तरक्रियायाश्च निवृत्तिः। 1000000000000000000000000 Jain Education in For Private & Personal Use Only ainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy