________________
अध्यात्म०
॥ २६ ॥ *
दुक्खमेवेदं । तप्पडियारविभिण्णं, तो पुण्णफलंति दुक्खति ॥ २ ॥ विसयसुहं दुक्खं चिय दुक्खप्पडियारओ तिमिच्छन । तं सुहमुवयाराओ, णय उवयारो विणा तत्तति ॥ ३ ॥ " परोक्ष ज्ञानार्थमुपसर्पतां हि छद्मस्थानां तत्सामग्रीभूतेष्विन्द्रियेषु प्रवृत्तमैत्रीवशोदीर्णमहामोहानलज्वालोपतापप्रायतृष्णा परमार्थतो दुःखरूपतया जनितदुःखवेगमसहमानानां इन्द्रियाणिॐ व्याधि स्थानीयतामिष्टविषयाश्च तत्साम्य स्थानीयतामाबिभ्रतीति कथं न दुःखप्रतीकाररूपतयैतत्सुखं पर्यवस्यतीति । ॐ पारमार्थिक सुखजनकाद विशिष्टाद्धर्मपरिणामाद् दुःखजनको विशिष्टपरिणामो विलीयते स एव मोक्ष इति स्थितं “धर्माधर्म क्षये मोक्ष” इति वचनात्ततः परिणामादेव बन्धमोक्षावितिस्थितं । ये तु परप्राणव्यपरोपणबहिरङ्गयतिॐ लिङ्गादयो बाह्या बंधमोक्षहेतवस्ते नैकान्तिका न चा (वा) त्यन्तिकास्तत्सद्भावासद्भावाभ्यामपि फलासद्भावसद्भावदर्शनात् । ॐ स्यादेतत् यथाजातलिङ्गं मोक्षसामग्र्यां निविशमानमव्यभिचारि भविष्यति तदुपलम्भ एवोपचरितासद्भूतव्यवहारेण विषयादिनिवृत्त्याऽशुद्धनिश्चयनयेनाभ्यन्तराव्रतपरिणामं त्यक्त्वा शुभप्रवृत्तिरूपाणि व्यवहारव्रतानि परिपाल्य, त्रिगुतिलक्षणसमाधिकाले तान्यपि परित्यज्य, केवलज्ञानोपलम्भाद्भरतादीनामपि तथैव प्रवृत्तेः, स्तोककालतया परं ॐ स्थूलदृष्टिभिस्तथाना कलनात्तदुक्तं “पञ्चमुष्टिभिरुत्पाट्य, त्रुव्यन् बन्धस्थितीन कचान् । लोचनान्तरमेवापद्राजन् ! Q श्रेणिक केवलमिति ॥ १ ॥ मैवं शक्यपरिहारस्यापि ध्यानसामग्रीवशात् परिजिहीर्षादिकं विनाऽपरिहारे वाक्कायसंवृत्तिसमत्वलक्षणत्रिगुप्तिसाम्राज्ये केवलाज्ञानाप्रतिरोधात् । यैः पुनरुच्यते "अत्रतानि परित्यज्य, व्रतेषु परिवेष्टितः । त्यजेत्तान्यपि संप्राप्य, परमं पदमात्मना ॥ १ ॥” इति तेषामयमाशयो यद् जीवघातादिनिवृत्तावपि जीवरक्षणादि
Jain Education
63958
For Private & Personal Use Only
परीक्षा वृ०
॥ २६ ॥
w.jainelibrary.org