SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 00000000000000000000000 इति ध्येयम् एवं चात्मज्ञाने सत्यात्माज्ञानविलयात् तत्प्रयुक्तरागद्वेषविलये तन्मूलकारस्यातिपरिणामरूपदुःखविलय एवेति व्यवतिष्ठते, तेनात्मज्ञाने सति दुःखविलये क्षुत्पिपासादिकमपि न भवत्येवेति परेषां प्रत्याशावल्ली समुन्मूलिता भवति क्षुदादिपरिणामस्य ज्ञानानाश्यत्वादिति स्फुटी भविष्यत्यग्रे ॥ ५६ ॥ अथ परिणामस्यैव फलमभिष्टौतितो परिणामाउ च्चिय बन्धो मोक्खो व णिच्छयणयस्सोणेगंतिया अणचंतिया पुणो बाहिरा जोगा॥५७॥ तत्परिणामादेव बन्धो मोक्षो वा निश्चयनयस्य । नैकान्तिका अनात्यन्तिकाः पुनर्बाह्या योगाः ॥ ५७ ॥ का जीवस्य हि द्विविधः परिणामो विशिष्टोऽविशिष्टश्चाद्यः परोपरागप्रवर्तितशुभाशुभाङ्गतया द्विविधोऽन्त्यस्तु स्वद्र व्यमात्रप्रवृत्ततयैकविध एव । जीवश्चोपदर्शितान्यतरस्वपरिणाममेव कुरुते न तु परपरिणाममेकक्षेत्रतयाऽवस्थिताना-12 मपि पुद्गलानां तदुपादानहानायोग्यतया, तत्कर्मत्वाभावात् , स्वतन्त्रप्राप्यस्यैव कर्मत्वात् , कथं तर्हि ज्ञानावरणादिद्रव्यकर्मबन्ध इति चेदात्मनो रागद्वेषरूपं भावकर्म निमित्तीकृत्य योगद्वारा निविशमानानां स्वत एवोपात्त वैचित्र्याणां ज्ञानावरणादिभावपरिणतेरुपचारात् इति गृहाण । तस्मात् पुण्यपापपरिणामादेवात्मनो बन्धस्तत्तत्कर्मणांत(त्त)द्विपाककाले च सुखदुःखरूपं फलमपीति स्थितं पुण्यपापपरिणामावप्यशुद्धरूपतया वस्तुत एकरूपावेव तत्फलयोरपि: सुखदुःखयोरत्यन्तमभिन्नत्वान्न हि पुण्यफलमपि चक्रवादिसुखं परमार्थतः सुखं अङ्गनासंभोगादिविषयौत्सुक्य-16 काजनितारतिरूपदुःखप्रतीकारमात्रत्वात्तस्य । न च विपर्ययोपि सुवचः प्रत्यक्षबाधात् तदुक्तं “पुण्णफलं दुक्खं चिय| 21 कम्मोदयओफलं व पावस्त । नणुपावफलेवि समं, पञ्चक्खविरोहिया चेव ॥१॥ जत्तो च्चियपच्चक्खं, सोम्म सुहं णत्थि, 000000000000000000000000 Jain Education a l For Private Personal Use Only dr.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy