SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 00000000000000000000000 इति ध्येयम् एवं चात्मज्ञाने सत्यात्माज्ञानविलयात् तत्प्रयुक्तरागद्वेषविलये तन्मूलकारस्यातिपरिणामरूपदुःखविलय एवेति व्यवतिष्ठते, तेनात्मज्ञाने सति दुःखविलये क्षुत्पिपासादिकमपि न भवत्येवेति परेषां प्रत्याशावल्ली समुन्मूलिता भवति क्षुदादिपरिणामस्य ज्ञानानाश्यत्वादिति स्फुटी भविष्यत्यग्रे ॥ ५६ ॥ अथ परिणामस्यैव फलमभिष्टौतितो परिणामाउ च्चिय बन्धो मोक्खो व णिच्छयणयस्सोणेगंतिया अणचंतिया पुणो बाहिरा जोगा॥५७॥ तत्परिणामादेव बन्धो मोक्षो वा निश्चयनयस्य । नैकान्तिका अनात्यन्तिकाः पुनर्बाह्या योगाः ॥ ५७ ॥ का जीवस्य हि द्विविधः परिणामो विशिष्टोऽविशिष्टश्चाद्यः परोपरागप्रवर्तितशुभाशुभाङ्गतया द्विविधोऽन्त्यस्तु स्वद्र व्यमात्रप्रवृत्ततयैकविध एव । जीवश्चोपदर्शितान्यतरस्वपरिणाममेव कुरुते न तु परपरिणाममेकक्षेत्रतयाऽवस्थिताना-12 मपि पुद्गलानां तदुपादानहानायोग्यतया, तत्कर्मत्वाभावात् , स्वतन्त्रप्राप्यस्यैव कर्मत्वात् , कथं तर्हि ज्ञानावरणादिद्रव्यकर्मबन्ध इति चेदात्मनो रागद्वेषरूपं भावकर्म निमित्तीकृत्य योगद्वारा निविशमानानां स्वत एवोपात्त वैचित्र्याणां ज्ञानावरणादिभावपरिणतेरुपचारात् इति गृहाण । तस्मात् पुण्यपापपरिणामादेवात्मनो बन्धस्तत्तत्कर्मणांत(त्त)द्विपाककाले च सुखदुःखरूपं फलमपीति स्थितं पुण्यपापपरिणामावप्यशुद्धरूपतया वस्तुत एकरूपावेव तत्फलयोरपि: सुखदुःखयोरत्यन्तमभिन्नत्वान्न हि पुण्यफलमपि चक्रवादिसुखं परमार्थतः सुखं अङ्गनासंभोगादिविषयौत्सुक्य-16 काजनितारतिरूपदुःखप्रतीकारमात्रत्वात्तस्य । न च विपर्ययोपि सुवचः प्रत्यक्षबाधात् तदुक्तं “पुण्णफलं दुक्खं चिय| 21 कम्मोदयओफलं व पावस्त । नणुपावफलेवि समं, पञ्चक्खविरोहिया चेव ॥१॥ जत्तो च्चियपच्चक्खं, सोम्म सुहं णत्थि, 000000000000000000000000 Jain Education a l For Private Personal Use Only dr.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy