________________
अध्यात्म०
॥ २५ ॥
अथ स्वीयत्वज्ञानं न स्वभिन्नत्वज्ञानविरोधीतिचेन्न परत्र स्वीयत्वज्ञाननिबन्धनदृढतररागवासनापरम्पराया एव ॐ वीतरागस्वभावभावनाप्रतिकूलत्वात्, ममकारस्याहङ्कारसामग्रीभूतत्वाच्च अपि चैवं विषयेष्वेव प्रतिबद्धस्यास्य कथं स्वद्रव्यमात्रप्रतिबन्धो, वस्तुतस्तु स्वीयत्वमपि स्वत्वपर्यवसन्नमेव, परम्परासंबन्धस्य निश्चयनयवादिनाऽनभ्युपगमादन्यथा येन केनचित् संबन्धेन सर्वस्य सर्वसंबन्धितयाऽसंबन्धव्यवहारस्य कथाशेषताप्रसङ्गात्, तस्माद्रागद्वेषवशादेव स्वपरविभागव्य सितिर्लोकानां न तु परमार्थत इति स्थितं ॥ ५५ ॥ तद्भावनामपनिनीषिभिः पुनरध्यात्मभावनैवाश्रयणीयेति तन्माहात्म्यमुपदर्शयति
णाहं होमि परेसिंण मे परेणत्थि मज्झमिह किंची । इय आयभावणाए रागद्दोसा विलिज्जन्ति ॥ ५६ ॥ नाहं भवामि परेषां न मे परे नास्ति मामिह किंचित् । इत्यात्मभावनया रागद्वेषौ विलीयेते ॥ ५६ ॥
Jain Education In
विदमेव हि सर्वदुःखमूलरागद्वेषप्रभवः, तौ च तत्प्रतिपक्षात्मज्ञाने सति विलीयेते, तच्चात्मज्ञानं परमार्थतो वीतरागाणामेव, तेषामेव दुःखक्षयरूपतत्फल संभवादन्तःकरणखेदनिरासस्यैवानाकुलत्व भावनारूपज्ञानफलत्वातदुक्तम् "आत्माज्ञानभवं दुःखमात्मज्ञानेन हन्यते । तपसाध्यात्मविज्ञानहीनैश्छेत्तुं न शक्यत इति" यत्तु ज्ञानं राग| द्वेषनिरासाय न प्रभवेन्न तन्निश्चयतो ज्ञानमप्यत एव चरणभङ्गे निश्चयतो ज्ञानदर्शनयोर्भङ्ग एव व्यवहारतस्तु तद्भ1) जनेति गीयते तदुक्तं “णिच्छयणयस्स चरणस्सुवधाए नाणदंसणवहोवि । ववहारस्स उ चरणे हयम्मि भयणा उ सेसाणन्ति" निश्चयो हि फलं कुर्वदेव कारणमभ्युपैति व्यवहारस्तु कुशूलनिहितबीजवत् स्वरूपयोग्यमपीति विशेष
For Private & Personal Use Only
परीक्षा त्रु
।। २५ ।।
jainelibrary.org