________________
900000000000000000000000६
तद्धेतुत्वादित्याहुः' तदसदुक्तेनैवोपपत्तावतिरेककल्पनाया अन्याय्यत्वादिति दिग् । अथोपदर्शितं व्यवहारमतं निश्चयनयवादी दूषयतिपुण्णपयडीण उदए भोगोभोगंतरायविलएणं। जहणियवित्तेणंचिय तो भोगोकिण्ण किविणाणम्।५४॥
पुण्यप्रकृतीनामुदये भोगो भोगान्तरायविलयेन । यदि निजवित्तेनैव तद्भोगः किन्न कृपणानाम् ॥ ५४॥ ___ भोगान्तरायकर्मक्षयोपशमसध्रीचीनसातवेदनीयादिपुण्यप्रकृतिविपाकोदयादेव हि जन्तूनां भोग उपजायते न लातु स्ववित्तमात्रादेव, अन्यथा कृपणानामपि स्ववित्ते उपभोगप्रसङ्गात्, न चैवमस्ति, तथा च श्रूयते 'न दातुं नोपभोक्तुं च |
शक्नोति कृपणः श्रियम् । किं तु स्पृशति हस्तेन नपुंसक इव स्त्रियमिति तस्मात् स्वभोगसाधनत्वरूपं स्वत्वं वित्तादौ |संभवत्येव न, तत्सत्त्वेऽपि भोगाभावेन व्यभिचाराद्, अथ प्रत्येकमीदृशो व्यभिचारो न दोषाय सामग्र्या एव कार्याव्यभिचारनियमादिति चेन्न यस्य कार्यजनने न विलंबस्तस्यैव परमार्थतो हेतुतया तदानीमवर्जनीयसन्निधितयोपसेदुषां| पेरपामुपचारमात्रैणव हेतुत्वात् ॥ ५४ ॥ अथैवं परस्मिन्नपि स्वत्वाभिमानिनामपायमाविष्कुरुतेजो परदवंमि पुणो करेइ मूढो ममत्तसंकप्पं । सो कह आयसहावं गिद्धो विसएसु उवलहइ॥५५॥
यः परद्रव्ये पुनः करोति मूढो ममत्वसङ्कल्पम् । स कथमात्मस्वभावं गृद्धो विषयेपूपलभते ॥ ५५ ॥ | यः खलु परद्रव्ये मोहमूलकप्रवृत्त्युपजनितवासनाबलविलुप्तविविक्तस्वभावभावनतया मृगतृष्णायामिवाम्भोभार|संभावनां भावयति निरन्तरं ममकारभावनां स कथं जाग्रति प्रतिपक्षे तद्विपरीतामात्मस्वभावभावनामासेवितुं प्रभवति।
0000000000000000000000
Jain Education Inc
h
For Private & Personal Use Only
mainelibrary.org