________________
अध्यात्म
परीक्षावृ०
॥२४॥
000000000000000000000000
रागद्वेषपारवश्यात कोपप्रसादादिपरिणताश्चित्तपुद्गलाः स्तुतिनिन्दादिपरिणताश्च वचनपुद्गलाः सुगन्धदर्गन्धादिपर्यायपरिणता ग्रहणयोग्यपुद्गलाश्चानियन्त्रितैमेनोवाक्काययोगैरुपनीयमाना अदान्तेन्द्रियाणामिच्छाद्वेषविषयीभवन्तोऽपि सर्वथा पृथग्भावभाजनतया न जातु जीवस्य स्वभावं भजन्ते, ज्ञानवत्त्वाज्ञानवत्त्वाभ्यां जीवपुद्गलयोरन्यत्वात ॥५॥ नन्वेवं समुच्छिन्ना स्वपरद्रव्यादिव्यवस्थेत्यत्राहतम्हा सपरविभागो पोग्गलदत्वंमि णचत्थि णिच्छयओ। भोगाभोगविससा व्यवहाराचेव सपरतं॥५३॥
तस्मात्स्वपरविभागः पुद्गलद्रव्ये नास्ति निश्चयतः । भोगाभोगविशेषाब्यवहारादेव स्वपरत्वम् ।। ५३ ॥ । आत्मना सह तादात्म्यवृत्तिमभजन्तः पुद्गलाः सर्वेऽपि सर्वथा प्रत्यस्तमितस्वपरविभागसंकथा एव, व्यवहारतस्तु वदति इदं मदीयमिदं परकीयमित्यबाधितव्यवहारात् स्वभोगयोग्यं वस्तु स्वकीयं, परभोगयोग्यं च परकीयमिति ।। योग्यपदमहिम्ना धर्माविरोधिस्वभोगसाधनत्वार्थपर्यवसानान्न परकीयेऽपि स्वभोगसंभवादतिप्रसङ्गो, धर्मश्चात्र स्थूलास्तेयादिरूपो ग्राह्य इति नातिप्रसङ्गः, अन्यायोपार्जिते तु स्वत्वव्यवहारो भ्रान्त एव । नचोपदर्शितभोगसाधनत्वस्य धनस्वरूपत्वे क्रयात्पूर्व विक्रयादुत्तरं च तत्सत्त्वादक्रीतविक्रीतयोरपि स्वत्वापत्तिरिति वाच्यं, येन रूपेण धर्माविरोधिभोगसाधनता तद्रूपवत्त्वस्य वाच्यत्वात् । परे त्वाहुः क्वचिद्विक्रयः प्रागभावविशिष्टः क्रयविनाशः, क्वचिद्दानादिमागभावविशिष्टः प्रतिग्रहध्वंसश्चेत्येवमननुगत्वं स्वत्वं वाच्यं, दानादिप्रागभावविशिष्टाः प्रतिग्रहादिध्वंसा अतिरिक्तं स्वत्वत्वेनानुगता वा तथेति केचित्तु 'स्वत्वमतिरिक्तमेवान्यस्य दुर्वचत्वात्, प्रतिग्रहादीनां चैकशक्तिमत्तयानुगतानां
நTREEGஅதுக்கே
॥२४॥
Jain Education
For Private
Personel Use Only
.jainelibrary.org