SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ 00000000000000000000000000 ण य धम्मो व सुहं वा परस्स देयंण यावि हरणिज । कयणासाकयभोगप्पमुहा दोसा फुडा इहरा ॥५०॥ । न च धर्मो वा सुखं वा परस्य देयं न चापि हरणीयम् । कृतनाशाकृतभोगप्रमुखा दोषाः स्फुटा इतरथा ॥५०॥ न हि स्वगतो धर्मः परस्य केनचित् प्रसन्नेनापि सता दातुं शक्यते, न वा कुपितेन तेन परस्य धर्मोऽपहर्तुं शक्यते, प्रसादकोपविषयप्राणिनामकस्माद्धर्माधर्मदानेऽकृताधर्मागमकृताधर्मनाशकृतधर्मनाशाकृतधर्मागमप्रसङ्गादन्यान्यधर्माधर्मच्छेदसन्धानाभ्यां सङ्करैकत्वादिप्रसङ्गाच्च । एवं स्वफलदानहरणपक्षेऽपि दोषा भावनीयाः । न ह्येकजीवपर्यायाः परपर्याया भवितुमर्हन्ति, तेषां ततोऽभिन्नत्वादू ॥५०॥ननु तथाऽपि भक्तादिपुद्गलद्रव्यमेव देयमपहरणीयं च भविष्यतीत्याशङ्कायामाहभत्ताइपोग्गलाण वि ण दाणहरणाइ होइ जीवस्स । जइ तं सञ्चिय हुज्जा तो दिज्जा वा अवहरिजा॥५१॥ ___ भक्तादिपुद्गलानामपि न दानहरणादि भवति जीवस्य । यदि तत्स्वमेव भवेत् तदा दद्याद्वाऽपहरेत् ॥५१॥ स्वद्रव्यस्यानुजिघृक्षया हि परार्पणं दानं, परकीयस्य चादत्तस्यैव स्वीकारो हरणमुभयमपीदं निश्चयतो निर्मूलमेव, परद्रव्यस्य स्वत्वासंभवात्तथाहिजोगवसेणुवणीया इट्टाणिट्टा य पोग्गलाजे हु । अण्णा ते जीवाउ जीवो अण्णो अ तेहिन्तो ॥ ५२ ॥ योगवशेनोपनीता इष्टा अनिष्टाश्च पुद्गला ये खलु । अन्ये ते जीवाज्जीवोऽन्यश्च तेभ्यः ॥ ५२ ॥ For Private Personel Use Only jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy