________________
00000000000000000000000000
ण य धम्मो व सुहं वा परस्स देयंण यावि हरणिज । कयणासाकयभोगप्पमुहा दोसा फुडा इहरा ॥५०॥ । न च धर्मो वा सुखं वा परस्य देयं न चापि हरणीयम् । कृतनाशाकृतभोगप्रमुखा दोषाः स्फुटा इतरथा ॥५०॥
न हि स्वगतो धर्मः परस्य केनचित् प्रसन्नेनापि सता दातुं शक्यते, न वा कुपितेन तेन परस्य धर्मोऽपहर्तुं शक्यते, प्रसादकोपविषयप्राणिनामकस्माद्धर्माधर्मदानेऽकृताधर्मागमकृताधर्मनाशकृतधर्मनाशाकृतधर्मागमप्रसङ्गादन्यान्यधर्माधर्मच्छेदसन्धानाभ्यां सङ्करैकत्वादिप्रसङ्गाच्च । एवं स्वफलदानहरणपक्षेऽपि दोषा भावनीयाः । न ह्येकजीवपर्यायाः परपर्याया भवितुमर्हन्ति, तेषां ततोऽभिन्नत्वादू ॥५०॥ननु तथाऽपि भक्तादिपुद्गलद्रव्यमेव देयमपहरणीयं च भविष्यतीत्याशङ्कायामाहभत्ताइपोग्गलाण वि ण दाणहरणाइ होइ जीवस्स । जइ तं सञ्चिय हुज्जा तो दिज्जा वा अवहरिजा॥५१॥
___ भक्तादिपुद्गलानामपि न दानहरणादि भवति जीवस्य । यदि तत्स्वमेव भवेत् तदा दद्याद्वाऽपहरेत् ॥५१॥ स्वद्रव्यस्यानुजिघृक्षया हि परार्पणं दानं, परकीयस्य चादत्तस्यैव स्वीकारो हरणमुभयमपीदं निश्चयतो निर्मूलमेव, परद्रव्यस्य स्वत्वासंभवात्तथाहिजोगवसेणुवणीया इट्टाणिट्टा य पोग्गलाजे हु । अण्णा ते जीवाउ जीवो अण्णो अ तेहिन्तो ॥ ५२ ॥
योगवशेनोपनीता इष्टा अनिष्टाश्च पुद्गला ये खलु । अन्ये ते जीवाज्जीवोऽन्यश्च तेभ्यः ॥ ५२ ॥
For Private
Personel Use Only
jainelibrary.org