SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Jain Education I त्र्यादेवेत्येतावान् विशेष इति चेत् काममभिमतमेतत् । श्रूयते हि 'उद्यमभाग्यविवादबद्धाभिनिवेशयोः श्रेष्ठिनोर्विवादभञ्जनाय भूपालादिष्टेन मन्त्रिणा तदप्रतिबोधखिन्नेन निर्जलकूपे प्रवेशितयोस्तयोर्मध्याह्नसमये क्षुत्क्षामकुक्षितां ॐ संभाव्य करुणया प्रदापितयोर्मोदकयोरुद्यमभाग्यातिरेकाद्वयोर्लाभाविशेषेऽपि परीक्षाभाजनीभूतान्तर्गतरलमयमुद्रिकाॐ प्रतिलम्भो भाग्यवादिन एव श्रेष्ठिनो नान्यस्येति' केवलं भाग्यस्योद्यमानपेक्षावाद एव स्याद्वादिनां निरसनीय इति । अपि च भाग्यवैचित्र्यमपि प्राक्तनतत्तत्कर्मव्यापाररूपोद्यमवैचित्र्यादेवेति न महाननयोः प्रतिविशेषः । अथैकजातीयदुग्धपानादेरेव कस्यचित्सुखं भवति कस्यचिद्दुःखमित्यदृष्टमेव बलवन्नतु बाह्यो हेतुरितिचेन्न, विचित्रादृष्टवशान्मधुररसविपरीतरसोद्बोधादिदृष्टद्वारैव ततो दुःखोदयात्तस्य व्यापारभेदेन सुखदुःखयोर्द्वयोरपि हेतुत्वाद्, न हि दृष्टकारणमसंपाद्यैवादृष्टं भोगजनकं येनैकान्ततो बलवत्स्याद्, अथ भोगार्थ दृष्टकारणोपसंपादकत्वमेव दृष्टस्य बलवत्त्वमि तिचेन्न, प्राक्तनतत्तत्कर्मणोऽपि भोगार्थमदृष्टजनकत्वरूपबलवत्त्वस्य तुल्यत्वात् । अथ बाह्यहेतोः फलेन न नियतो योगोॐ ऽन्तरङ्गस्य तु नियत इति चेन्नासिद्धेः घटादौ मृत्पिण्डादेरपि नियतापेक्षा सत्त्वात्, यत्र तु विनाऽपि द्रव्यदानादिकं ७ भावदानादिनैव पुण्यसंपत्तिर्जीर्णाभिनवश्रेष्ठिप्रबन्धेन श्रूयते तत्र द्रव्यदानादेर्घटे दण्डादिवदहेतुत्वात्कृप्तौ तन्दुलक्रयणादेवि प्रयोजकत्वमात्रादेव न क्षतिर्हेतुत्वे वा पुण्यसंपत्ताववान्तरजातिरस्तु सामान्यतो हेतुत्वादेव । "णेगंतिओ अणचंतिओ अ जं दव्वओ तेणंति" वचनस्य सङ्गतेस्तस्मादन्तरङ्गबहिरङ्गयोर्द्वयोरपेक्षामात्रात्तुल्यत्वमेवेति वस्तुस्थितिः ॥ ४७ ॥ ॐ अथ निश्चयनयविषयविभागमुपदर्शयति G For Private & Personal Use Only w.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy