________________
Jain Education
3000
बह्वायाससाध्ये कर्मणि प्रवृत्त्यनुपपत्तेः । कृष्यादिप्रवृत्त्यैव बीजमङ्करं जनयतीत्यस्य स्वभाव इति चेत् सोऽयं स्वभावः सहकार्यपेक्षामाददानो हेतुवादमेव द्रढयति, स्वेतरसहकारिसध्रीचीनानां सर्वेषामेव कारणानां कार्यजनन स्वभावत्वात्, पूर्व तु सहकारिवैकल्यप्रयुक्तकार्याभाववत्त्वस्वभावत्वेऽपि कार्योपधायकत्वस्वभावादेव कार्यानुदयात् । न चैवं कार्योपधायकत्वानुपधायकत्वलक्षणविरुद्धधर्माध्यासाद्धेतुभङ्गप्रसङ्गः, कालभेदेनैकत्र भावाभावयोरविरुद्धत्वात्, क्षणिकस्वस्य स्वप्नेऽप्यप्रतीतेः। एतेन वर्त्तमानत्वावर्त्तमानत्वलक्षणविरुद्धधर्माध्यासोऽपि निरस्तः, सदसत्सम्बन्धस्य ज्ञानादावविरोधदर्शनात् प्रत्यय क्रमेणैवैकत्वानेकक्षण संबन्धक्रमसंभवादिति । सङ्ग्रहनयात्तु अङ्कुरत्वाद्यवच्छिन्नं प्रति बीजत्वादिना हेतुत्वं, अतः कार्यस्य कारणस्य वा नैकजातीयत्वमाकस्मिकं, नवा यतः कुतश्चिदेव भवतः सर्वस्यैकजातीयत्वं सर्वजातीयत्वं वा, नाप्यन्यूनानतिरिक्तस्यैव दहन हेतोरदहनहेतुत्वे ततो भवन्नयं नादहनो वा स्यादुभयात्मको वा स्यादिति दूषणावकाशो, नैगमस्य तु सामान्यविशेषविश्रान्तस्य यथाक्रमं सङ्ग्रहव्यवहारान्तर्भविष्णुतया न ह्याभ्यां विषयविभागोऽतिरिच्यते । शब्दनयास्तु प्रायो ऋजुसूत्रसमानविषया एवेति नयसमूहात्मकप्रमाणार्पणात् सर्वं वस्तु स्वभावसाध्यमपि बाह्यकारणसाध्यमपि । नच हेतौ सहकारिवैचित्र्यानुप्रवेशेनैव कार्यवैचित्र्यसिद्धौ किं स्वभाववैचित्र्यानुप्रवेशेनेति वाच्यं, विचित्रसहकारिसंबन्धस्यैव तत्स्वभावतया तद्वैचित्र्ये स्वभाववैचित्र्यावश्यकत्वाद्, अत एव द्रव्यस्य नित्यत्वेऽपि कथंचित्तत्स्वभावभूतक्षणिक परिणामयोगान्नित्यत्व संवलितः क्षणभङ्गोऽपि सगङ्गच्छते । एतेन शिंशपासामग्रीव्यापक सामयन्तर्भाविनो नोदनादयो यदि शिंशपास्वभावभूतास्तर्हि तन्निबन्धना चलदलादिरूपता पलाशादौ न स्याद्, यदि
For Private & Personal Use Only
jainelibrary.org