SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Jain Education 90006 | मिति ॥ ४३ ॥ अथ मरुदेवादीनामिवान्येषामपि स्वभावादेव निर्वाणलाभसंभवात् केवलं बहुतरकायक्लेशजनिकायां व्यवहारक्रियायां कथमिव प्रेक्षावन्तः प्रवर्त्तन्तामिति चेन्नूनमेवं सौगतमतावलम्बी कथमन्यत्रापि प्रवर्त्तिष्यते भवान्, अस्माकं तु निश्चयतः सर्वस्यैव स्वभावादेव संभवाद्व्यवहारादेव बाह्यकरणजन्यत्वाद्वस्तुतो न प्रवृत्त्यनुपपत्तिरित्युपदिशतिसवं सहावसज्झं णिच्छयओ परकयं च ववहारा। एगन्ते मिच्छत्तं उभयणयमयं पुण पमाणं ॥ ४४ ॥ सर्वं स्वभाव साध्यं निश्चयतः परकृतं च व्यवहारात् । एकान्ते मिथ्यात्वं उभयनयमतं पुनः प्रमाणम् ॥ ४४ ॥ सर्व वस्तु स्वभावादेवोत्पद्यते देशनियमस्येव कालनियमस्यापि स्वभावत एव संभवात्, कार्यस्य देशनियमोsपि प्रागभावादिहेतोरेवेतिचेन्न, तथाप्याकाश एव आकाशत्वमित्यादि नित्यदेशनियमे स्वभावस्यैव शरणत्वात् । यत्तु यस्मिन्नह्नि घटस्योत्पत्तिस्वभावस्तदहरेव पूर्वं कुतः सेति केनचित्पर्यनुयुज्यते तदसत् परस्य कारणपरम्पराया इव मम स्वभाव| परम्पराया आश्रयणे दोषाभावात् तस्याह्नः स्वस्मिन्नेवोत्पत्तिस्वभावत्वे आत्माश्रय इति चेन्नेदानीं मध्याह्न इत्यादिव्यवहारात् समयस्य स्ववृत्तेः प्रामाणिकत्वादितिस्वभाववादिनो बौद्धस्य मतं, तदसत् निरवधित्वेऽनियतावधित्वे वा कादाचित्कत्वव्याघातात्, नियतप्राच्यावधीभूतस्यैव हेतुत्वादुपकारान्तरानाधानमात्रेण स्वभाववादस्येष्टत्वात्, नियमरूपापेक्षामात्रेणैव हेतुत्वादप्रवृत्तेरिति हेतुवादिनो नैयायिकादेर्मतं स्याद्वादिनस्तु मिथः सव्यपेक्षमेवेदमुभयमतमनुमन्यन्ते तथाहि - सूक्ष्मर्जुसूत्रनयेन तावत्स्वभावादेव कार्य जायते, पूर्वक्षणविलक्षणचरमक्षणक्रोडीकृत स्वरूपस्यैव बीजस्याङ्कुरहेतुत्वात्, स्वस्य भावः कार्यजननपरिणतिरिति स्वभावार्थत्वात्, परिणतिपरम्पराया एव चैकसन्तानतया व्यव - For Private & Personal Use Only 1000000000000000000000 jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy