SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ अध्यात्मक ॥२०॥ ®®®®®®®®0000000000 परिशील्य तत्रैव दत्तदृष्टितयेन्द्रियनिरोधेन बाह्यव्यापाराभावात् चित्तस्यैकाग्रतया परमात्मतत्त्वसंवित्तिरूपमात्मध्यान परीक्षा वृ० माप्नोति साधुनत्वन्यथैव हेत्वभावाद् ॥ ४२॥ अथ व्यवहारविलोपिनामपायमुपदर्शयतिलंपड बज्झं किरियं जो खलु आहच्चभावकहणेणं।सो हणइ बोहिबीअं उम्मग्गपरूवणं काउं॥४३॥ - लुम्पति बाह्या क्रियां यः खलु आहत्यभावकथनेन । स हन्ति बोधिबीजं उन्मार्गप्ररूपणं कृत्वा ॥ ४३ ॥ आन्तरमेव करणं फलसाधकं नतु बाह्यकरणमपि भरतादीनां बाह्यकरणरहितानामपि केवलज्ञानोत्पत्तेरिति कादाचित्कं भावमवलम्ब्य व्यवहारं ये विलुम्पन्ते ते स्वयमुन्मार्गप्ररूपणप्रसूतमिथ्यात्ववशात् स्वबोधिबीजमुन्मूलयन्ति | यदागमः “पत्तेयबुद्धकरणे चरणं णासन्ति जिणवरिंदाणं । आहच्चभावकहणे पंचहिँ ठाणेहिं पासत्था ॥१॥ उम्मग्गदेसणाए चरणं णासंति जिणवरिंदाणं । वावण्णदंसणा खलु णहु लब्भा तारिसा दडे ति"। ननु भरतादीनां व्यवहारक्रियापेक्षां विनैवाध्यात्मलाभे तत्र कथमस्या उपयोग इति चेन्न, प्राग्भवाभ्यस्तोभयकरणप्रसूतनिर्जराविशेषसध्रीचीनान्तरकरणमात्रात्तेषामाहत्य केवलोत्पत्तावपि बाह्यक्रियायाः परम्परयोपयोगात् , तथाभूतस्य चानादरे सांप्रती-16 नधर्मध्यानादेरपि दूरेनिर्वाणजनकस्यानादरप्रसङ्गादू, ननु तथाऽपि व्यवहारक्रियां विनापि मरुदेवादीनां केवलज्ञा-16) २०॥ नोत्पत्तेर्व्यभिचारादिष्टसाधनत्वग्रहं विना कथं तत्र प्रवृत्तिरितिचेन्न तावदिष्टसाधनताज्ञानत्वेनैव प्रवर्तकताऽपि त्विष्टप्रयोजकत्वज्ञानत्वेनैवान्यथा तृप्त्यर्थिनस्तन्दुलक्रयणादावप्रवृत्तिप्रसङ्गात् , तत्त्वं च व्यवहारक्रियायामपि निराबाध १ मरुदेव्या। 000000000000000000000 Jain Education L For Private & Personel Use Only Haw.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy