SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ परीक्षा अध्यात्म सूत्राभिप्रायात् तदुक्तं विशेषावश्यके "अपरिग्गहया सुत्तेत्ति जा य मुच्छा परिग्गहोभिमओ । सबदसु ण सा कायवा सुत्तसब्भावो ॥१॥" या च सवाओ परिग्गहाओवेरमणमित्यादिनाऽपरिग्रहता सूत्रे प्रोक्तेति त्वया गीयते तत्रापि मूच्छैव ॥१९॥ परिग्रहस्तीर्थकृतामभिमतो नान्यः, सा च मूर्छा यथा वस्त्रे तथा सर्वेष्वपि शरीराहारादिद्रव्येषु न कर्त्तव्येति सूत्रसद्भावः सूत्रपरमार्थो न पुनस्त्वदभिमतः सर्वथा वस्त्रपरित्यागोऽपरिग्रहतेति सूत्राभिप्रायस्तस्मादपरिज्ञातसूत्रभावार्थो मिथ्यैव खिद्यसे त्वमिति । एतेन प्राणातिपातादीनां मोहजन्यत्वानुरोधेन मोहोदयसत्ताभ्यां द्रव्यभावपरिणति| भेदाभिधानं द्रव्यरूपाणामपि तेषां द्रव्यत आश्रवरूपत्वात् सूक्ष्मपृथिव्यादीनामिवाविरतिप्रत्ययकर्मबन्धहेतुत्वादित्याद्यभिमानमपि केषांचिद्विचारणीयमेवैकेन्द्रियाणामप्यज्ञानादिप्रमादयोगेन भावहिंसाया एव संभवात् , क्षेत्रादि| रूपाणामिव द्रव्यादिरूपाणामपि प्राणातिपातादीनां स्वकारणोपनिपातमात्रसंभविसंभवतया मोहाजन्यत्वादन्यथा कदाचित् मूर्छाजननपरिगृहीतपरिग्रहत्वस्वभावः कायोऽपि केवलिनां द्रव्याश्रवभूत इति तेषामशक्यपरिहाराभाविमावेदयतामायुष्मतां कथमिव स्पृहणीयः स्यादित्यन्यत्र विस्तरः । परेषां तु परप्रवृत्तेरेव मोहजन्यत्वात् तदुदयस त्ताभ्यां तत्कार्यस्य भावद्रव्यपरिणती संगच्छेते, न चेदमपि संगतं योगजन्यप्रवृत्तौ मोहस्यान्यथासिद्धत्वादन्यथा विनि|गमनाविरहप्रसङ्गादतिप्रसङ्गाच्चेति दिक् ॥ ३९ ॥ अथेदमुपसंहरन्नाहका सिद्धन्तसिद्धधरणं उवगरणं तं मुणीण सुहकरणम्।अह होइ पावहरणं इय अहं बिन्ति आयरिया॥४०॥ सिद्धान्तसिद्धधरणं उपकरणं तन्मुनीनां सुखकरणम् । अथ भवति पापहरणं इत्यस्माकं ब्रुवते आचार्याः ।।४।। 0000000000000000000 Jain Education in For Private Personal Use Only wwwmainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy