SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 00000000000000000000 वा पुणो गिलाणो वा । चरियं चरदु सजोगं मूलच्छेदं जधा ण हवे।" न तु तद्विरोधेन, यतो ग्लानत्वाद्यनुरोधेन मृदाचरणेप्यल्पलेपो भवत्येव तदुक्तं "आहारे च विहारे देसं कालं समं खमं उवहिं । जाणित्ता ते समणे वट्टदि जदि अप्पलेवी सो त्ति ॥१॥” तद्वरमुत्सर्गो, ग्लानत्वाद्यनुरोधेन मृदाचरणेप्यल्प एव लेपो भवति, तद्वरमपवादो, ग्लानत्वादिनाप्याहारविहारयोरल्पलेपभयेनाप्रवृत्तावतिकर्कशाचरणेन शरीरं पातयित्वा स्वर्लोकगमने तत्र संयमवमनात् महान् 61 लेप इति न श्रेयानपवादनिरपेक्ष उत्सर्गः,ग्लानत्वाद्यनुरोधेनाहारविहारयोरल्पलेपत्वं विगणय्य यथेष्टप्रवृत्तौ मृद्वाऽऽचरणेनासंयतजनसमानतया महानेव लेप इति नोत्सर्गनिरपेक्षोऽपवादः श्रेयानिति व्यवस्थया नाहारविहारयोर्दोष इति चेत्त-12 दिदमन्यत्रापि तुल्यमत एवौधिकौपग्रहिकादिव्यवस्था पञ्चभिः स्थानरचेलतादिप्राशस्त्यं च समये व्यवस्थितमिति ॥३८॥ उक्तप्रतिबन्धैव परेषां कल्पनान्तरमपाकुर्वन्नाहएएणुवगरणेणं पच्चक्खाणस्स दवओ भंगो। इय कप्पणावि विहवाजवणमिव णिप्फलाणेया । एतेनोपकरणेन प्रत्याख्यानस्य द्रव्यतो भङ्गः । इति कल्पनापि विधवायौवनमिव निष्फला ज्ञेया ॥ ३९ ॥ __इदं ह्याध्यात्मिकानामाकूतं यत्परिग्रहप्रत्याख्यानं तावच्चतुर्विषयकमेव कात्स्न्येन पर्यवस्यति तदुक्तम् । “से परिग्गहे चउबिहे पण्णत्ते दबओ खित्तओ कालओ भावओत्ति"। तत्रोपकरणे सति मू त्यागेन भावपरिग्रहप्रत्याख्यानसंभवेऽपि द्रव्यपरिग्रहस्य जागरूकत्वात् तस्य सर्वदा ज्ञात्वासेवने लेपसंभव इति । तदिदमाहारेऽपि तुल्यमिति विधवायौ-1 वनमिव स्वसमीहिताकारितया स्वविडम्बनामात्रमेव परेषां विजम्भितं, सर्वद्रव्येषु मूर्छात्याग एव कार्य इत्युक्त 000000000000000000000००० ९॥ 3000 JainEducation For Private Personal Use Only ainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy