________________
Jain Education
90006
| वेज्जुवदिट्टं ओसहमिव जिणकहिअं हिअं तओ मग्गं । सेवंतो होइ सुही इहरा विवरीअफलभागी ॥ ३३ ॥ वैद्योपदिष्टौषधमिव जिनकथितं हितं ततो मार्गम् । सेवमानो भवति सुखी इतरथा विपरीतफलभागी ॥ ३३ ॥
रोगिणः सम्यग्भिषग्वरोपदिष्टमौषधमिव भुवनवैद्य भगवदुपदिष्टो मोक्षमार्ग एव सम्यगाराध्यमानो मुमुक्षोरन्तरङ्गवेदनां विनाशयति तदाचरणस्यैवान्वेषणं त्वशक्तस्यापथ्यरूपतया प्रत्युतानर्थनिबन्धनमिति भावः ॥ ३३ ॥ अथ तथाप्यधिकृतमाहारोपकरणयोर्न साम्यं यावताऽऽहारादावनिगूहितशक्तेः कदाचिदेव प्रवृत्तिरन्यत्र पुनरतथाभावादित्यत्राभीक्ष्णं प्रवृत्तावपि शक्त्यनिगूहनादेव धर्मोपकरणस्य युक्तत्वमित्युत्तरं सुकरमित्याह
अणिगृहन्तो सत्तिं भुञ्जन्तो वि जह णो चयइ मग्गं । अणिगूहन्तो सत्तिं, तह उवगरणं धरन्तो वि ॥ ३४ ॥ अनिगृहयन् शक्तिं भुञ्जानोपि यथा न त्यजति मार्गम् । अनिगृहयन् शक्ति तथोपकरणं धरन्नपि ॥ ३४ ॥
कलात्मशक्तिप्रकटीकरणेन तपः कुर्वाणो हि तां परिनिष्ठितामवगम्य तदुपष्टम्भक विहिताहारप्रवृत्तिमान्न विराधकः शक्तिनिगूहनप्रयुक्तभोजनानुरागाभावात् तदुक्तं प्र० सारे "केवलदेहो समणो देह िममत्तरहिदपरिकम्मो । आउत्तो तं तवसा अणिगूढं अप्पणो सत्तिंति ।" एवं सकलात्मशक्तिप्रकटीकरणेन सर्वाभिष्वङ्गं परित्यजन्नपि तादृशधृतिबलाद्यभावेन तां परिनिष्ठितामवगम्य तदुपष्टम्भकधर्मोपकरणप्रवृत्तिमानपि न विराधकस्तत एव यदागमः - " अणिगूहन्तो विरियं ण विराहेइ चरणतवसुएसुं । जइ सञ्जमे वि विरियं न णिगूहिज्जा ण हाविज्जा ॥ १ ॥ एकैकाचाराप्रतिरोधेनैवाचारान्तरसमाचरणं बलवदनिष्टाननुबन्धीष्टसाधनमिति तात्पर्यम् । तत्रापि मूलगुणाचारानुरोधेनैवोत्तरगुणाचरणं श्रेय इति
For Private & Personal Use Only
jainelibrary.org