________________
अध्यात्म
परीक्षा वृ०
॥१५॥
ருருருருருருருருருருசாக
त्तिरिति । एवं च निष्पद्य सूरिपदं च प्राप्य, दीर्घकालं तत्पर्यायमनुपाल्य, योग्यशिष्यमाचार्यपदेऽवस्थाप्य, विहारो विशेषानुष्ठानरूपो विधेयः, स च द्विविधो, भक्तपरिज्ञेङ्गिनीपादपोपगमनलक्षणमभ्युद्यतमरणं जिनकल्पपरिहारवि-| शुद्धिकयथालन्दिककल्पप्रतिपत्तिा, तत्र स्तोकं स्वायुर्ज्ञात्वा प्रथमविहारं प्रतिपद्यते । दीर्घमपि स्वायुर्ज्ञात्वा यदि क्षीणजवाबलस्तदा वृद्धवासं स्वीकुरुते । पुष्टायां तु शक्तौ जिनकल्पादिप्रतिपित्सुस्तपःसत्त्वसूत्रैकत्वबलविषयिणीभिः पञ्च-1 भिस्तुलनाभिः प्रथममात्मानं तोलयति तथा हि-तपोभावनया तावत्तथा बुभुक्षां पराजयते यथा कारणवशादाषण्मासीमाहारालाभेनापि न खिद्येत । सत्त्वभावनाभिस्तु-"पढमा उवस्सयंमि, बीया बाहिं तइय चउकंमि। सुण्णहरम्मि चउत्थी, अह पञ्चमिया मसाणंमी"त्युक्तक्रमेण भयं पराजयते । सूत्रभावनया तु तथा सूत्रमति परिचिनुते यथा सर्वकालं तत्प|रावर्त्तनानुसारेणैव सम्यगवबुध्यत इति । एकत्वभावनया तु साङ्घाटिकादिभिरपि मिथः संलापादिप्रवृत्तिनिवृत्त्या बाह्यममत्वनिवृत्तौ देहोपध्यादिकादिभ्योपि भिन्नमात्मानं भावयंस्तेष्वपि सर्वथा निरभिष्वङ्गो भवति । बलं द्विविधं, शारीरं मनोधृतिबलं च, तत्र शारीरमपि बलं जिनकल्पप्रतिपत्तियोग्यस्य शेषजनबलमतिशेत एव। तपःप्रभृतिना तदपकर्षेऽपि धृतिबलेन तथात्मानं भावयति यथान महद्भिरपिपरीषहोपसर्बाध्यत इति। तदेवं पञ्चभिर्भावनाभिर्भावितात्मा गच्छे प्रतिवसन्नप्यागमोक्तविधिनाहारादिपरिकर्म संसाध्य सङ्घ स्वगणं चाहूय जिनगणधरचतुर्दशपूर्विदशपूर्विसमीपे, तदभावे वटाश्वत्थाशोकवृक्षादीनामासत्तौ जिनकल्पमभ्युगच्छति, ततः सर्वान् क्षामयित्वा निजपदस्थापितसूरिप्रभृतीननुशास्य च वनकन्दरादौ विहरति ।प्रतिपन्नजिनकल्पश्च यत्र ग्रामे मासकल्प चतुर्मासक वा करोति तत्र षट् भागान् कल्पयति ।
0000000000 GOGG04
Jain Education
For Private Personel Use Only
ainelibrary.org