________________
ஒREESOGOOGSPECE
दुपदेशादिति चेत्तर्हि तत एव जिनकल्पिकाद्यौपधिकमार्गाधिकारिणोऽपि निरुपमधृतिसंहननाः पूर्वविदः कृतपरिकर्माणः त एव च भवन्तीति किमिति न प्रतिपद्यसे ॥३१॥ अथ जिनकल्पप्रतिपत्त्यक्षमस्यैव स्थविरकल्पप्रतिपत्तिस्तुलनाभ्यासादिदृढीकृतशक्तरेव कस्यचिन्जिनकल्पप्रवृत्तिःश्रेयसीति भगवदुपदेश इत्याहनिरतिसयाणं कप्पो, थेराण हिओ ठिओअप्तत्थेव। पडिवज्जउ जिणकप्पं, पञ्चहिँ तुलणाहिँ जुत्तो जो॥३२
निरतिशयानां कल्पः, स्थविराणां हितः स्थितश्च तत्रैव । प्रतिपद्यतां जिनकल्पं, पञ्चभिस्तुलनाभिर्युक्तो यः ॥ ३२ ॥ | तादृशसंहननधृतिविद्याद्यभावेन निरतिशयानामेव हि स्थविरकल्प उक्तस्तादृशातिशयवतां तु जिनकल्पप्रतिपत्तिरेव मुख्या । स्थविरकल्पिकस्यापि चायंक्रमः “पवजा सिक्खावयमत्थग्गहणं च अनियओवासो । णिप्फत्ती य विहारो, |सामायारी ठिई चेव ।" गुणवता हि गुरुणा विधिना पूर्व योग्यस्य शिष्यस्य प्रव्रज्या प्रदेया, ततः परं शिक्षापदं ग्रहणासेवनारूपं द्वादशवर्षाणि यावत्सूत्राध्ययनोपदेशप्रत्युपेक्षणादिक्रियोपदेशरूपं, ततश्चार्थग्रहणं द्वादशवर्षाण्यधीतसूत्रः शिष्यो गुरुणार्थग्रहणं कार्यतेऽन्यथा सूत्राध्ययनप्रयासस्य निष्फलत्वप्रसङ्गात् , ततोऽनियतो वासः यद्याचार्यपदयोग्यः शिष्यः तदा जघन्यतोपि सहायद्वयं दत्त्वात्मतृतीयो द्वादशवर्षाणि यावन्नानादेशदर्शनं नियमेन कार्यते जिनजन्मा-144 दिभूमिदर्शनजनितहर्षातिरेकेण स्वसम्यक्त्वस्थिरीभावपरसम्यक्त्वस्थिरीकरणनानाचार्यपरिशीलनजनितसूत्रार्थसामाचारी विशेषोपलम्भनानादेशभाषावबोधानुगृहीततत्तद्देशजविनेयप्रव्राजनपूर्वप्रवजिततदुपसंपद्भावतदनुरागभाजनत्वादिगुणानां तथैव संभवात् अतथाभूतस्य त्वनियमः, ततो निष्पत्तिराचार्यपदार्हतायाः अन्येषां भूयसां शिष्याणां तदन्तिके निष्प
जै00000000000000000
Jain Education
a
l
For Private & Personal Use Only
Odjainelibrary.org