SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 300000000000000000000000 जह जलमवगाहन्तो भण्णइ चेलरहिओ सचेलो वितह थोवजुण्णकत्थियचेला वि अचेलया साह॥२८॥ यथा जलमवगाहमानो भण्यते चेलरहितः सचेलोऽपि । तथा स्तोकजीर्णकुत्सितचेला अप्यचेलकाः साधवः ।। २८ ॥ ___ यथा हि-कटीवस्त्रेण वेष्टितशिरसोपि जलावगाढपुरुषस्य तथाविधपरिभोगप्रकारनेपथ्याद्यभावादचेलकत्वव्यवहारस्तथा कच्छाबन्धाभावात् कूर्पराभ्यामग्रभाग एव चोपलपट्टधारणान्, मस्तकस्योपरि प्रावरणाद्यभावाच्च, लोकरूढप्रकारादन्यप्रकारेण परिभोगात्, तथाविधनेपथ्याभावाच्च, सचेला अपि मुनयोऽचेला व्यवहियन्त इति भावः ॥२८॥ एवमुपचरितव्यवहाराच्छेषसाधव इत्युक्तं निरुपचरितव्यवहारात्तु देवदूष्यवस्त्रापगमे भगवन्त एव संभवन्तीति विभजतेउवयारेण अचेला, सेसमुणी सबहा जिणिन्दा य । खंधाओ देवदूसं, चवइ तओ चेव आरब्भ ॥२९॥ उपचारेणाचेलाः, शेषमुनयः सर्वथा जिनेन्द्राश्च । स्कन्धाद्देवदूष्यं, च्यवते तत एवारभ्य ॥२९॥ | भगवन्तो हि वस्त्रपात्रकार्यकारिलब्धिभाजो निरुपमधृतिसंहननाश्चतुर्ज्ञानातिशययुक्ता विनाऽपि वस्त्रपात्रादिकं संयम निर्वोढुं क्षममाणा न कारणाभावात् तदुपादत्ते । केवलं सवस्त्रपात्रो धर्मः प्ररूपणीय इति देवेन्द्रण स्कन्धाहितं देवदूष्यमादाय निष्क्रामन्तीति देवदूष्यवस्त्रावस्थितिं यावत्तेप्युपचारतोऽचेलास्ततः परं मुख्यया वृत्त्येति तत्त्वं । जिनकल्पिकस्वयम्बुद्धादयस्तु सर्वकालमुपचरिताऽचेला एवोपधिद्वयस्य सर्वदा भावाद्, अत एव तानुद्दिश्यायमुपधिविभागः “दुगतिगचउक्कपणगं, णव दस इक्कारसवे बारसगं। एए अह विगप्पा, जिणकप्पे हुंति उवहिस्स" इति वचनोको द्रष्टव्यस्तत्र रजोहरणं मुखवस्त्रिका चेति द्विविधः उपधिः केषांचिदन्येषां तु कल्पेन सह त्रिविधः, कल्पद्वयेन तु 000000000000000000000000 Jan Education For Private Personel Use Only www.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy