________________
Jain Education In
अणसणसहावजोगा जह असणं अणसणन्ति जुत्तमिणं । जुत्तं तह वत्थाई सहावओऽतप्परिणयस्स ॥२५॥ अनशनस्वभावयोगात्, यथाऽशनमनशनमिति युक्तमिदम् । युक्तं तथा वस्त्रादि, स्वभावतोऽतत्परिणतस्य ॥ २५ ॥
यथा हि-संयतस्य सकलकालमेव सकलपुद्गलाहरणशून्यमात्मानमवबुध्यमानस्य सकलाशनतृष्णाशून्यतयान्तरङ्गतपःस्वरूपानशन स्वभावभावनासिद्धये एषणादोषशून्यान्यद्वैश्याचरणेऽपि साक्षादनाहारता तदुक्तं च- “ जस्स अणसण(णं अ) मप्पा, तंपि तओ तप्पडिच्छगा समणा । अण्णं भिक्खमणेसणमध ते समणा अणाहारा।" तथैवास्य सर्वकालमेव सकलपरद्रव्यपरिग्रहशून्यमात्मानमवबुद्ध्यमानस्य सकल मूर्च्छारहिततयान्तरङ्गापरिग्रहस्वभावभावनाप्रसिद्धये दोषशून्यमुपकरणं प्रतिगृह्णतोऽपि कुतो न साक्षादपरिग्रहतेति क एष पक्षपातः १ । फलेच्छामात्रेणानिष्टनिरुरुत्सामात्रेण वा प्रवृत्तावप्यतृष्णापरिणामेन तृष्णातिरोधानादहङ्कारममकाराभावस्योभयत्र तुल्यत्वात् ॥ २५ ॥ एवं च यतीनां निर्दोषमाहारमनाहारं ॐ मन्वानस्यापि वस्त्रादिमतः कथमचेलत्वमिति पर्यनुयोगोऽविचारितोपन्यस्त एवेत्याह
एवं च सचेलाणं, कह सुत्तुत्तं भवे अचेलत्तं । इय पभणंतस्स तुहं को णियघररक्खणोवाओ ॥ २६ ॥ एवं च सचेलानां, कथं सूत्रोक्तं भवेदचेलत्वम् । इति प्रभणतस्तव, को निजगृहरक्षणोपायः ॥ २६ ॥
ल
हि भावतोsनाहारमात्मानं द्रव्यतो भुञ्जानमेव मन्यते स खलु भावतो निष्परिग्रहेऽपि द्रव्यतो धर्मोपकरणधारिणि कथं सचेलतां पर्यनुयुञ्जीत ? इतश्च जिताचेलपरीषहो मुनिरिति सूत्रमपि सुव्यवस्थितं ॥ २६ ॥ यदितु सर्वथा चेलप
००००
For Private & Personal Use Only
jainelibrary.org