SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ 00000000000000000000000 लौकिकस्तहि बाध एव । यदि भयहेतुत्वादिक ग्रन्थत्वं तदाऽप्रयोजकत्वं, मूर्छाहेतुत्वेन भयादिहेतुत्वायोगात् । परिग्रहजन्यबन्धहेतुत्वं ग्रन्थत्वमितिचेन्न, बन्धहेतुत्वमात्रस्यैव तत्रौचित्यात् , यत्युपकरणस्याप्यविरतबन्धहेतुत्वेन सिद्धसाधनाच्च । हेतौ साध्ये च यतीनामित्युपादाने चासिद्धिबाधौ । येषां मू हेतुत्वं तेषां ग्रन्थ इति वक्तुमभिमतमितिचेत् काममभिमतं नः, येषां कनकादिकं ग्रन्थस्तेषां वस्त्रादेरपि ग्रन्थत्वात्, सामान्यतस्तु कनकयुवत्यादिक अपि न ग्रन्थ आहारादिवदेहार्थत्वात् यदाह-"आहारो व न गन्थो, देहन्ति विसघायणहाए । कणगम्पि तहा जुवई, धम्मंतेवासिणीमित्ति।" नन्वेवं ग्रन्थाग्रन्थव्यवस्थाविलोपः स्यादितिचेदत्राहुः। “तम्हा किमत्थि वत्थु, गन्थो गन्थो व सबहा लोए । गन्थो गन्थो व मओ, मुच्छममुच्छाइ णिच्छयओ ॥१॥ वत्थाइ तेण जं जं, सञ्जमसाहणमरागदोसस्स । तं तमपरिग्गहो च्चिय, परिग्गहो जं तदुवघाई ॥२॥” यद्यपि निश्चयतो मूच्छव ग्रन्थः"मुच्छा परिग्गहो वुत्तो” इति वचनात्तथाप्यत्र मूर्छा|जननपरिणतं द्रव्यं ग्रन्थ इति व्यवहारोऽपि विशुद्धतया निश्चयत्वेनोक्तः । ननु भवतामपि न ग्रन्थ इति साध्यस्य कोऽर्थ इति चेन्मू हेतुत्वमिति गृहाण । मूर्च्छया प्रवृत्तिरेव हि पुनः पुनस्तदनुसन्धानजननी दृढतरवासनां प्रसूते । अथप्रसन्नचन्द्रादीनांप्राथमिकदुर्मुखवचनश्रवणादिप्रवृत्ती रागोपरागविषयोपरागसामग्रीद्वयसमाजादेवोभयोपरागोपश्लिष्टस्वभावेति मूर्छाऽजन्या तत् प्रवृत्तिः कथमुत्तरोत्तरमूर्छाजननीति चेन्न यौगपद्येऽपि विषयोपरागत्य रागोपराग-| लाजन्यत्वात् । मोक्षेच्छादिरूपो रागस्तु न तादृग् रागवासनाजनक इति वढेर्दाह्यं विनाश्यानुविनाशवद्विपयाभिष्वङ्गवा-| सनां विनाश्य स्वयमपि नश्यतस्ततोऽध्यात्मशुद्धिरिति ध्येयं । यत्र तु वस्त्रादिकं न ग्रन्थो मूर्छाऽजनकत्वादिति | पुन्छममुच्छा शक्ति निश्चयत्वे शुद्धतया निधयह पुनः पुनः 00000000000000 lain Education Licional For Private & Personel Use Only A w .jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy