SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ विना प्रतिनियमादित्युपरिष्टाद्वक्ष्यते । तस्मात् परद्रव्यप्रवृत्तिर्न रागद्वेषजनकतया ध्यानप्रतिवन्धिकाऽपि तु विषयान्तरसञ्चारसामग्रीत्वेन, यत्र तु मुखवस्त्रिकादिप्रत्युपेक्षणादौ प्रवृत्तिरावश्यकादिध्याने न विरोधिनी प्रत्युत तदनुरोधिनी तत्र तयैवाध्यात्मशुद्धेः शुद्धात्मोपलम्भाद्भयांसः सिद्धिमध्यासते स्मेति श्रयते।कथमिति चेत् ? तथाविधावश्यकादिक्रिया कालान्तर्भविष्णुश्रेणिसमापनयोग्यसूक्ष्मान्तर्मुहूर्त्तभाविना परमात्मलयेन मोहक्षयादिति गृहाण । नन्वेवं "इत्येतस्मिन् गुणस्थाने नो सन्त्यावश्यकानि षट् । सन्ततध्यानसद्योगात् शुद्धिः स्वाभाविकी यतः” इति कथमिति चेत्? कर्मशमनक्षपणोन्मुखस्य प्रारम्भकस्य तन्निष्ठस्य निष्पन्नयोगस्य वा ध्यातुरविरलमानसव्यापारादेव शुद्धावावश्यकाद्यनुपयोगो नत्वावश्यकादिक्रियायास्तत्प्रतिबन्धकत्वमित्यभिप्रायोऽत एवाथावश्यकानामभावेऽपि शुद्धिमाहेति तदवतारणिकान्यथा | कथमपि सङ्गच्छन्ते (न संगस्यते)। ये खल्वत्यन्तमप्रमादितयात्मध्यानत एव व्याप्रियन्ते तेषामावश्यकादिक्रियां विनैव | शुद्धिर्ये तु जीवनप्र(प्र)मादकणतया नैवंविधास्तेषामावश्यकादिद्वारैव शुद्धेरध्यात्मलाभ इत्येतदभिप्राय इति दृढतरमालोचनीयं । ननु तथाप्यपकृष्टमार्गादुत्कृष्टमार्ग एव श्रेयानिति शुद्धोपयोग एवाश्रयणीयो न तु संभावितशुभोपयोगोपि | स्थविरकल्पिकमार्ग इति चेत्तदिदमत्यावेशात् प्रथमसोपानमपहायैवोपरि प्रासादारोहचापलमायुष्मतः। किं चैवं त्वरमाणः। प्रथममेव शैलेशीचरमसमयं किमिति न धावसि, तस्यैव निश्चयतो मोक्षहेतुत्वात् तदुक्तं धर्मसंग्रहण्याम् “ सो उभयलक्खयहेऊ, सेलेसीचरमसमयभावी जो । सेसो पुण णिच्छयओ, तस्सेव पसाहगो भणिओत्ति ।" स धर्म उभयक्षयहेतुः धर्माधर्मोभयक्षयकारी यः शैलेशीचरमसमयभावी, शेषः पुनस्तस्यैव शैलेशीचरमसमयभाविन एव धर्मस्य प्रसाधक 1000000000000000000000000 Đeos osses cootee Gees Jain Education a l For Private & Personal Use Only inbrary 09 IC
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy