________________
अध्यात्म
॥१०॥
00000000000000000000
तणुसंरम्भेणं जेण मुंचइस वाइओ जोगो। मण्णइ अस माणसिओ तणुजोगो चेव य विभत्तो॥१॥ तणुजोगो च्चिय मणवय
परीक्षा वृ० जोगा काएण दबगहणाओ। आणापाणुवण चे तओवि जोगन्तरं हुज्जा॥२॥तुल्ले तणुजोगत्ते कीस व जोगन्तरन्तओण को। मणवयजोगा व कया भण्णइ ववहारसिद्धत्थं" ॥३॥ अथ वा कायगृहीतवाङ्मनोद्रव्यसध्रीचीनजीवव्यापारात्मके स्वतन्त्रे एव वाङ्मनसी योगौ तदुक्तं तत्रैव । “अहवा तणुजोगाहियवयदव्वसमूहजीववावारो। सो वयजोगो भण्णइ वाया णिसिरिजए जेणं ॥१॥ तह तणुवावाराहियमणदबसमूहजीववावारो । सो मणजोगो भण्णइ मण्णइणेयं जओ| तेणंति॥२॥" एवं च मानसादिप्रवृत्तिं प्रति मनोयोगत्वादिनापि हेतुत्वं, अत एव सुषुप्तावस्थायां काययोगाहितश्वासप्रश्वासादिव्यापारसम्भवेऽपि मनोयोगव्यापाराभावान्नोपयोग इति तदा ज्ञानानुत्पत्तिनिर्वोहायोपयोगाभावभणितिराकरे व्य-10 वस्थिता, फलार्थिप्रवृत्तिं प्रति च फलेच्छापि हेतुः, सा च नियमात् रागद्वेषकृता,मोक्षेच्छाया अपि निश्चयतः परमनि:स्पृहाणामनादेयत्वात्, अत एव "तो मुअइ नाणवुहि भविअजणविबोहणट्ठाए।" इत्यत्र कृतकृत्यस्य भगवतः किं कथनप्रयोजनं भव्यानिवाभव्यानपि वा किमसौ न बोधयतीति परप्रत्यवस्थाने उदीर्णतीर्थकरनामा भगवान्न सर्वथाकृतकृत्यस्तदुदयक्षपणोपायश्च धर्मोपदेशादिरेवेति तत्रास्य प्रवृत्तिरुचिता, कृतार्थत्वेऽपि रवे सकत्वस्वाभाव्यमिव भगवतोप्यनुपकृतोपकारित्वं स्वभावादेव, स्वतो रागद्वेषौ विनाऽपि तदुदयात्, कमलकुमुदयोर्विकाशसङ्कोचाविव भगवदुप- ॥१०॥ देशादपि भव्याभव्ययोः प्रतिबोधाप्रतिबोधावपि स्वभावादेवेति समाधानदानादप्यतृप्तिभाजामाशाम्बराणां रागं विना कथं सत्र प्रवृतिरित्याशापि पूरिता । स्वफलाभिष्वङ्गं विनैव परमकारुणिकप्रवृत्तेः परोपकारस्य च (स्यैव) याथात्म्येनैव द्वेष
0000000000000000000000
in Education :
For Private & Personel Use Only
Hojainelibrary.org