________________
Jain Educatio
त्मकवचादिति ( वत्ताया) निश्चयतो द्वयोरपि तुल्यत्वात्, उपकाराननुबन्ध्युपधातपरिणामत्वस्य च दुष्कृतानुतापादावसि - द्धत्वादिति दिक् | १७ १८ १९ २० २१ । अथ निश्चयतो रागद्वेषयोः परद्रव्यप्रवृत्तिजन्यजनकभावो नास्तीत्युपदिशतिपरदवम्मि पवित्तीण मोहजणिया व मोहजण्णा वा । जोगकया हु पवित्ती फलकंखा रागदोसकया ॥२२॥ परद्रव्ये प्रवृत्तिर्न मोहजनिका वा मोहजन्या वा । योगकृता खु प्रवृत्तिः फलकाङ्क्षा रागद्वेषकृता ॥ २२ ॥
न हि परद्रव्यमात्मपरिणामरूप मोहजनकं निश्चयतः परपरिणामस्य पराजन्यत्वाद्, नापि तत्प्रवृत्तिस्वरूपात्मधर्म एव | मोहजनको मोहोदयपरिणतात्मन एव चरमक्षण कोडीकृतातिशयस्य तज्जनकत्वात् । किं च स्वावधि पृथक्त्वप्रतियोगित्वं © हि परत्वं तच्च न स्वस्मिन्नेव तथा च कथं प्रसन्नचन्द्रादीनां परद्रव्यप्रवृत्तिं विनाऽपि मोहराजपारवश्यं । दुर्मुखवचनश्रवणाहित मनोव्यापारादेव तस्य द्वेषोदय इति चेत् सुमुखवचनश्रवणाद्रागोदयोऽपि न कुतस्तस्मात्तत्तक्रम (तत्तत्कर्म) वृतिलाभकाल एव तत्तत्कार्यजनकः । परप्रवृत्तिस्तु क्वाचित्कतयोपयुज्यते मानसव्यापाररूपाया अप्युपेक्षात्मिकायास्तस्या राQ गाजनकत्वाद् । यदि तु प्रवृत्तिमात्रमेव मोहजनकं तर्हि सुषुप्त्यवस्थायामपि श्वासप्रश्वासादिप्रयत्नः स्पष्टचैतन्यरूपं रागादिकमुत्पादयेत् सूक्ष्मतदुत्पादे च प्रमाणाभावः । एतेन रागद्वेषयोः प्रवृत्तिजनकत्वमप्यपास्तं । नन्वेवं सकलतान्त्रिकसिद्धं रागजन्यत्वं प्रवृत्तेर्विप्लवते इत्याशङ्कायामाह - योगकृतेति प्रवृत्तिसामान्यं प्रति हि योग एव हेतुर्वीर्यान्तरकर्मक्षयक्षयोपशमजन्यस्यापि वीर्यस्य नियमतो योगान्वयव्यतिरेकानुविधानादत एव क्षायिक्यपि वीर्यलब्धिः स्वहेतुयोगविलयादेव विलीयत इति सिद्धान्तः । योगश्च वस्तुत एकरूपोपि व्यापारभेदात् त्रिधा भिद्यते तदुक्तं वि० “किंपुण
,
100
For Private & Personal Use Only
3500
www.jainelibrary.org