SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ अध्यात्मक 100000000000000000000000 नयस्तावदाह-क्रोधमानपरिणामावप्रीतिसामान्याद् द्वेषो मायालोभौ त्वभिष्वङ्गसामान्याद्राग इति,व्यवहारस्त्वाह-मायापि परीक्षा वृ० परोपघाताय प्रयुज्यमानत्वाद् द्वेष एव, रागस्तु न्यायोपात्तवित्तादिषु मूपिरिणाम एवान्यायोपात्ते तु मायादिकषायस्य संभवात् । तथा च परोपजिघांसाहेतुत्वं द्वेषत्वं, मू हेतुत्वं रागत्वमितिफलितं । ऋजुसूत्रस्तु सूत्रयति-क्रोधस्तावदप्रीत्यात्मकत्वाद् द्वेषः, शेषाणां तु नैकान्ततो रागत्वं द्वेषत्वं वा, यतः सांप्रतग्राही स न क्रमिकमुपयोगद्वयं तुल्यवत्स्वीकुरुते तथा च तस्य न समुच्चयवादः, किं तु स्वगुणाभिष्वङ्गपरिणतिसमये मानो रागः, परगुणद्वेषोपयोगकाले च स द्वेषो, मायालोभावपि परोधातोपयोगसमये द्वेषरूपौ, मूछोपयोगसमये तु रागरूपाविति । शब्दनयास्तु सङ्गिरन्तेमानमाययोः स्वगुणोपकारव्यापारपरिणामा लोभांशा एव परोपघातपरिणामाश्च क्रोधांशा एवेति क्रोधलोभावेव रागद्वेषौ पर्यवस्यत इति । इदं च कषायमाश्रित्योक्तं । नो कषाये तु वेदत्रयं, हास्यरती च रागो,ऽरतिशोकभयजुगुप्साश्च, द्वेष,इति ध्येयं,परेषांपुनरियमपि परिभाषा शुद्धनिश्चयनयेन तावन्नास्त्येवात्मनो रागो द्वेषो वा,अशुद्धनिश्चयनयेन तु मूर्छा-16 परिणामो रागः, संक्लेशविशुद्धिभ्यां द्विधाकृतस्वरूपःसङ्क्तेशैकरूप एव चाप्रीतिपरिणामो द्वेष, अनुपचरितासद्भूतव्यवहारनयेन च पौद्गलिके रागद्वेषकर्मणी, उपचरितासद्भुतव्यवहारनयेन च बाह्यः कुसुम्भादिराग इति'। नन्वेवं राग उपघातपरिणामाङ्गीकृतद्वेषवेषः सङ्क्तिश्यतां विशुद्ध्यतु चानुग्रहपरिणामप्रकटीकृतस्वस्वरूपो न तु क्रोधैकरूपो द्वेषोपि तस्यानुग्रहार्थत्वे द्वैविध्यप्रसङ्गादिति चेत् प्रवचनाभिप्रायानभिज्ञोऽसि एकैकव्यभिचारकाल एव ऋजसूत्रभजनाप्रवृत्तेरभिष्वङ्गरूपरागांशस्यापि स्वतोऽविशुद्धत्वादन्यथा तस्य द्वैविध्यविलोपप्रसङ्गात्, परापेक्षायाश्चोभयत्र तुल्यत्वात्, फलत उपघाता 200000000000000000000000 Jain Education For Private & Personal Use Only INo.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy