SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ अध्यात्म 000000000000000000 दराग्रहीतोऽसि गौणत्वेऽपि स्वकृतिसाध्यत्वे सत्यन्यकृत्यसाध्यकर्माधिकारितया विशेषविश्रामात्पुष्टालम्बनतया यति-परीक्षा वृ० हितावहत्वाच्च । न हि यथाकथंचिदपवादसेवनमेव हितावहं बमोऽपि तु पुष्टालम्बनं यदागमः "आलंबणेण केण य जे मन्ने सञ्जमम्पमायन्ति । णहु तं होइ पमाणम्भूअत्थगवेसणङ्कुजा ॥१॥" तादृशापवादे प्रमादयोगेन प्राणव्यपरोपणरूपा हिंसा कथं न श्रामण्यविरोधिनीतिचेन्न, वर्जनपरिणत्योपायान्तरं चिन्तयतोऽपि तदभाव एवानुजिघृक्षया सङ्कोपकारपरायणस्योपयोगशुद्ध्या वस्तुतो योगदुष्प्रणिधानाभावादित्यन्यत्र विस्तरः । यदि तु स्वरूपतः प्रशस्तवि. षयालम्बनतयैव रागस्य प्राशस्त्यं द्वेषस्तु नैवमसंभवादित्युद्भाव्यते, तर्हि प्राशस्त्याप्राशस्त्यरूपविषयविभाग एव विप्लवेत, उपेयेच्छाया वस्तुतो मोक्षालम्बनत्वेपि विहारादीनां तदुपायेच्छालम्बनानां स्वरूपतोऽशुद्धत्वाद्, विहितकर्मत्वेन प्राशस्त्यमिति चेन्न, साधारण्येन पक्षपातानवकाशादस्माकमप्यत्रैव निर्भराभोगनिमित्ततया चारित्रानुरागस्याभव्यानामपि संभवात्तव्यावृत्तप्राशस्त्याभिधानाय प्रशस्तोद्देशेनेत्यभिधानात् । तस्माद्विहारादाविव धर्मोपकरणेऽनुरागस्य मोक्षानुरागप्रवृत्ततया नाप्रशस्तत्वमिति ॥१६॥ अथ रागद्वेषयोरेव स्वरूपं प्रसङ्गतो निक्षेपनयविभागेन पर्यालोचयतिनामंठवणा दविए रागो दोसो अभावओ चउहा । कम्मं जोग्गं बद्धं बज्झन्तमुदीरणोवगयं ॥१७॥ नाम स्थापना द्रव्यं रागो द्वेषश्च भावतश्चतुर्की । कर्म योग्यं बद्धं बद्ध्यमानमुदीरणोपगतम् ॥ १७ ॥ णोकम्मदव्वराओ णायव्वो वीससा पओगा य । सञ्झाइकुसुभाई दोसो दुट्टव्वणाईओ ॥ १८॥ नोकर्मद्रव्यरागो ज्ञातव्यो विश्रसा प्रयोगाच्च । सान्ध्यादिकुसुम्भादिः द्वेषो दुष्टप्रणादिकः ।। १८ ॥ @@000000000 Jain Education des del For Private & Personel Use Only jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy