________________
द्वेषव्यापारादेवोदयात् । विशिष्टेष्टसाधनत्वज्ञानविशिष्टानिष्टसाधनत्वज्ञानतदुभयासाधनत्वज्ञानान्येवोपादित्साजिघांसाजिहासाजनकानीतिचेन्न तथापीष्टानिष्टत्वयो रागद्वेषाधीनत्वाद्, अन्यथा विपर्ययप्रसङ्गादपि च सम्यग्दृशोपि चक्रवादयः संसारकर्मणि बलवदनिष्टानुबन्धित्वं प्रतिसन्दधाना रागादिपारवश्यं विना कथं प्रवर्तिष्यन्ते तस्मादनन्तानुबन्धिवि|लयोदितसम्यग्दर्शनाविनाभाविप्रशस्तविषयरागद्वेषाभ्यां मोक्षोपादान(दित्सा)संसारजिहासे प्रगल्भमाने अपि चारित्रमोहप्रतिबन्धकसत्त्वान्न तदुपादानहानोपायेषु प्रवृत्तिं जनयितुम्प्रभवत एवमुत्तरोत्तरप्रतिबन्धकविलये तु क्रमेण लब्धं सरागं चारित्रमप्यन्ततः सुकृतानुमोदनदुष्कृतगर्हादिपरिणामोपकारि प्रशस्तरागद्वेषकणसंकीर्णमेव । तथाविधकारणवशाच्च सुमङ्गलसाध्वादेस्तादृशापवादसेवने तथाविधद्वेषोऽपि न मूलतो दोषाय, प्रशस्तरागस्येव प्रशस्त द्वेषस्य तथाविधचारित्रपरिणा|माप्रतिबन्धकत्वाद् । अथ स्फटिकस्य जपाकुसुमोपरागस्थानीयं सरागचारित्रं तापिच्छकुसुमसंसर्गस्थानीयो द्वेषः कथमुप| कुर्यादितिचेद्रागोऽपि कथं? प्रशस्तोद्देशेन तद्रूपपरिहारादितिचेत्तुल्यमिदमन्यत्र, एतेन विशुद्धिसङ्क्लेशाङ्गतया तस्य द्वैविध्यं व्याख्यातं, प्रत्याख्यातं च "परिणामादो बन्धो परिणामो रागदोसमोहजुदो। असुभो मोहपदेसो सुहो व असुहो हवदि अपणोत्ति” स्ववचनोद्भावनमपि । नन्वेवं प्रशस्तरागवत् सुमङ्गलसाध्वाधुचितो द्वेषोऽपि सर्वदा भवन्ननुमत एव स्यादितिचेन्न कारणिकद्वेषस्य विना कारणमननुगुणत्वाद् ।गृहस्थानामेव तादृशकारणेऽधिकार इति चेन्न तथाविधलब्धिभाजो गृहस्थस्थाभावे लब्धिमतः श्रमणस्यापि विशिष्टसङ्कायुपकारस्य कूपखननदृष्टान्तेनानुकूलत्वात्सार्वदिक्त्वकादाचित्कत्वाभ्यामेव गृहस्थानगारिणोः प्रभावकताविशेषाद् । उत्कृष्टश्रावकस्यापि गौणधर्मालम्बनतया नात्राधिकार इति चेदत एव
00000000000000000000000
Jain Educa
For Private
Personal use only
ww.jainelibrary.org