SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ अध्यात्म० एयं विदूसगाणं वयणं मयणंधवयणमित्र मोहा । अण्णह समोवहासो देहाहाराइगहणे ॥ १५ ॥ एतद्विदूषकाणां वचनं मदनान्धवचनमिव मोहात् । अन्यथा सम उपहासो देहाहारादिग्रहणेऽपि ॥ १५ ॥ ॥७॥ इदं हि वचनं विदूषकाणां हास्यमोहनीयोदयसमुज्जीवितात् सिद्धान्तविराधनाध्यवसायप्रसूतादज्ञानादेवोपजायते वेदमोहोदय मदिरोन्मादविधुरीकृतशक्तेरिव रजः पर्वादिसमयोचितं निर्विवेकतया यथा तथा प्रलपितं, न खलु महामोह - शैलूषपारवश्यं विना सम्भवत्यमूहग्नर्त्तनप्रकारः, कथमियमविचारितोक्तिरिति चेदित्थं क्षुद्वेदनादिप्रतिकारार्थमाहारादौ महर्षीणां प्रवृत्तिं स्वीकुर्वतः स्वस्यापि स्वोपहासभाजनत्वसङ्गात्, अथाहारादिप्रवृत्तिः क्षुद्वेदनामेव प्रतिकुरुते न तु किश्चिदॐ पकुरुत इति चेत्तुल्यं धर्मोपकरणेऽपि ॥ १५ ॥ अथैतेषामान्ध्यविध्वंसाय यथा न परापेक्षे रागद्वेषयोः प्राशस्त्याप्राशस्त्ये तथाहरागस्स व दोसस्स व उद्दिस्स सुहासुहे सुहासुहया। जइ पुण विसयापेक्खा कह होजा तो विभागो सिं १६ रागस्य वा द्वेषस्य वा उद्दिश्य शुभाशुभे शुभाशुभता । यदि पुनर्विषयापेक्षा कथं भवेत्तद्विभाग एतेषाम् ।। १६ ।। रागद्वेषयोर्हि स्वरूपतोऽप्रशस्तत्वमेव पापप्रकृतित्वादर्हद्भक्त्यादिशुभोद्देशेन च रागः प्रशस्यते कलत्रसेवाद्यशुभोद्देशेन वन तथा, द्वेषस्तु विपर्ययतः प्रशस्तोद्देशेनाऽप्रशस्तोऽप्रशस्तोद्देशेन च प्रशस्त इति तदुक्तमावश्यकवृत्तौ " स च प्रशस्तेतर| भेदः प्रशस्तोऽज्ञानादिगोचरस्तथा ह्यज्ञानमविरतिं मिथ्यात्वं च द्वेष्टि, अप्रशस्तस्तु सम्यक्त्वादिगोचर इति” एवं प्रवृतिरपि तादृशरागद्वेषोद्देश्यमेवोद्देश्यी (शी) कृत्य प्रादुर्भवन्ती प्रशस्ताऽप्रशस्ता च धर्माधर्मजननी । न च रागादेव प्रवृर्त्तिर्न तु द्वेषात् शत्रुहननादावपि जिघांसयैव प्रवृत्तेन्निवृत्तेरपि जिहासयैव सम्भवादिति वाच्यं । जिघांसाजिहासयोरपि 10000 Jain Educational For Private & Personal Use Only H परीक्षा वृ० ॥ ७ ॥ jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy