________________
अध्यात्म०
॥ ६ ॥
काला गृहीतव्या इति तुषारकण गणप्रवर्षिणि शीतकाले यतनया कल्पप्रावरणेनैव स्वाध्यायनिर्वाह इति । स्वाध्यायश्च धर्मध्यानालम्बनं “ आलम्बणाणि वायण पुच्छण परिअट्टणाणुचिन्ता य" इतिवचनात्तथा च ध्यानालम्बनोपकारकत्वमपि ॐ धर्मोपकरणस्योक्तं, तथा सच्चित्तपृथिवीधूमिकावृष्ट्यवश्यायरजःप्रदीप तेजःप्रभृतीनां रक्षापि तैः कृता भवति, तथा मृताच्छादनबहिर्नयनाद्यर्थं ग्लानप्राणोपकारार्थं च वस्त्रमभिमतं । एवं च भगवदाज्ञाराधनविशुद्ध्या ततोऽध्यात्मविशुद्धिः, तथा संपातिमरजोरेणुप्रमार्जनाद्यर्थ मुखवस्त्रं, आदाननिःक्षेपादिक्रियायां पूर्व प्रमार्जनार्थं लिङ्गार्थं च रजोहरणं, लिङ्गोदयादिवर्जनार्थं च चोलपट्ट उपयुज्यत इति । तदुक्तं विशेषावश्यके “किं सज्जमोवयारं करेइ वत्थाइ जइ मई सुणसु । सीयत्ताणं ताणं जलणतणगयाण सत्ताणं ॥ १ ॥ तह निसि चाउक्कालसज्झायज्झाणसाहणमिसीणं । महिमहियावासोसोरया इरक्खाणिमित्तं च ॥ २ ॥ सवसंवरुज्झणत्थं गिलाणपाणोवगारिमा (वा) भिमयं । मुहपत्तियाई चेवं परूवणिज्जं जहाजोग्गम् ॥ ३ ॥ तथा कल्पभाव्यादिष्वप्युक्तम् । कप्पा आयपमाणा अड्डाइज्जा य वित्थडा हत्था। दो चेव सोत्तिआ उन्निओ अ तइओ मुणेयबो ॥१॥ तणगहणाणलसेवाणिवारणा धम्मसुक्कझाणट्ठा। दिडं कप्पग्गहणं गिलाणमर (नय) णडया चेव ||२|| संपाइमरयरेणुपमज्जणट्ठा वयंति मुहपोत्तिं । नासं मुहं च बंधइ तीए वसहिं पमज्जन्तो ॥३॥ आयाणेणिक्खेवे ठाणणिसीए तुअट्टसङ्कोए। पुवं पमज्जणट्ठा लिङ्गट्ठा चैव रहरणं ॥ ४ ॥ उवायडे वा इत्थिहीखद्धपजणणे चेव । तेसिं अणुग्गहट्ठा लिंगुदयडा य पट्टो उ ॥५॥” एवं च पात्रेऽपि गुणा द्रष्टव्यास्तथाहि अनाभोगेन गृहीतानां संसक्तगोरसादीनां पात्रेणैव विधिना परिष्ठापनेन रक्षा कृता भवति अन्यथा तु हस्त एव गृहीतास्ते क्व क्रियेरन्, तथा पात्रं विना करपुटगृहीतसरसद्रववस्तुबिन्दुभिरधः पातिभिः कुन्थुकीटिकादिजन्तुसं
Jain Education
90
For Private & Personal Use Only
परीक्षा वृ
॥ ६॥
w.jainelibrary.org