SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 60600000GGGGGGG000CCOGOS रागाणं जिणिन्दपूओवेदसोय ॥५॥ उवकुणदि जोवि णिच्चं चादुवण्णस्स समणसंघस्स।कायविराहणरहिदं सोवि सरागप्पहाणो सो (णस्स)॥६॥” इति ।प्रतिषिद्धसेवनं पुनः कारणेऽपि कायविराधनादिरूपं नापवादः किं तुप्रकटोऽनाचार एव,शुद्धात्मवृत्तित्राणाद्यभिप्रायेणापि संयमविराधनया वैयावृत्त्यादिप्रवृत्त्या गृहस्थधर्मानुप्रवेशात्तदुक्तं “जदि कुणदि कायखेदं वेयावच्चत्थमुज्जदो समणो।ण हवदिरअगारी धम्मो सोसावयाणं सा(ज)॥१॥" अपरित्यक्तसर्वसावधव्यापारस्य हि तथाविधप्रवृत्त्या बहुपुण्यार्जनेन स्वल्पपापनिवृत्त्या तथाविधविशुद्धिसंभवात् , संयतस्य तु तादृगारम्भानान्तरीयकाशुभोपयोगेन श्रामण्यच्छेदादितिभावस्तस्माद्वस्त्रादिकं ग्रन्थ एव, तत्सत्त्वे उत्सर्गमार्गप्रवृत्तेस्तावद्रापास्तत्वाच्छुद्धोपयोगात्साधनस्य बाह्यद्रव्यस्यापवादतोप्यनादानात् कायखेदायतनतया शुभोपयोगेप्यनधिकाराच्चेति । अत्रोच्यतेउवकुणइ जह सरीरं सुद्धवओगं तहेव उवगरणं । जम्हा तओ मुणीणं सुए अणेगे गुणा भणिआ॥१३॥ उपकरोति यथा शरीरं शुद्धोपयोगं तथैव उपकरणं । यस्मात्ततो मुनीनां श्रुते अनेके गुणा भणिताः॥ १३ ॥ ___ यथा हि कायो दृढध्यानासनाभ्यासादिना परममनःस्थैर्यरूपशुद्धोपयोगमुपकुरुते तथा धर्मोपकरणमपि तथाहि-12 सौत्रिकौर्णिककल्पस्तावच्छीतार्तानां साधूनामार्तध्यानापहरणं भवति, तथा च स्वप्रतिबन्धकविलयात् माध्यस्थभावनाद्युपस्कृतधर्मध्यानादिरूपशुद्धोपयोगः समुज्जीवति, तथा ज्वलनज्वालनादिपरिहारेण ज्वलनतृणादिगतसत्त्वत्राणमपि भवेत्तैरेव शीतनिवृत्तेरित्युपधेर्चलनारम्भाद्यनुबन्धिस्वप्रतिबन्धकरौद्रध्याननिवारकतया शुभध्यानोपकारित्वं, तथा च 'कालचउक्कं उक्कोसएणं जहन्ने तियन्तु बोध' इति वचनानुरोधिभिः साधुभिः समस्तरात्रिजागरणं कुर्वद्भिश्चत्वारः 000000000000000 in Educatan For Private & Personel Use Only www.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy