SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अध्यात्म SOOFFORCEFFOCCCC यथाजातपुद्गलादिरुपधिश्छेदप्रतिषेधतया तमुपकुर्वन्नपवाद इत्यभिधीयते फलतस्तदा तदुपकारकत्वेप्येकान्तिकात्यन्ति-15परीक्षा वृक्ष कोपकारकत्वाभावेन स्वरूपतो हेयत्वात् स च बन्धासाधनत्वादप्रतिकुष्टोऽन्यत्रानुचितत्वादसंयतोऽप्रार्थनीयो रागादिकं विना धार्यमाणत्वात् मूर्छाऽजनकस्य कस्यचित् क्वचित्कदाचित् कथंचित्कश्चिदेव च ग्राह्य इति तदुक्तं “ अप्पडिकुटु | उवधि अपत्थणिजं असंजदजणेहिं । मुच्छादिजणणरहिदं गेण्हदु समणो जदि वि अप्पन्ति" ये तु श्रामण्यपरिणति प्रतिज्ञायापि जीवितकषायकणतया समस्तपरद्रव्यनिवृत्तिप्रवृत्तस्वभावप्रवृत्तिरूपां शुद्धोपयोगभूमिमारोढुं न क्षमन्ते ते तदुपकण्ठनिविष्टा एव तदुत्कण्ठुलमनसोऽपि शुद्धात्मवृत्तिमात्रेणावस्थितेष्वहंदादिषु तन्मात्रावस्थितिप्रतिपादकेषु च प्रवचनाभियुक्तेषु भक्तिवात्सल्याभ्यां तावन्मात्ररागोपनीतपरद्रव्यप्रवृत्तिपरिवर्तितशुद्धात्मवृत्तयः शुद्धात्मानुरागयोगरूपं शुभोपयोगमातिष्ठमाना गौणमेव चारित्रमुपलम्भन्ते न तु मुख्यं अतस्तेषां या काचन वन्दननमस्करणाभ्युत्थानानुग-1 मप्रतिपत्तिश्रमापनयनादिका शुद्धात्मानुरागयोगिना शुद्धात्मवृत्तित्राणनिमित्तानुजिघृक्षापूर्विका दर्शनज्ञानोपदेशशिष्यग्रहणतत्पोषणजिनेन्द्रपूजोपदेशरूपा च सरागचर्या सा नैव शुद्धोपयोगचर्यया समुच्चीयते केवलमवाचीयत एव तदुक्तं प्रवचनसारे “समणा सुद्धवजुत्ता सुहोवजुत्ता य होंति समयंमि । तेसुवि सुद्धवजुत्तो अणासवा सासवा सेसा ॥१॥ धम्मेण परिणदप्पा अप्पा जदि सुद्धसंपओगजुओ। पावदि णिबाणसुहं सुहोवउत्तो व सग्गसुहं ॥२॥ अरहन्तादिसु भत्ती व-16 |च्छलदा पवयणाभिजुत्तेसु । विजदि जदि सामण्णे सा सुहजुत्ता हवे चरिया ॥३॥ वंदणणमंसणेणहि अब्भुठाणाणुगमणप-12॥५॥ डिवत्ती।समणेसु समावणओ ण किंदिया रायचरियमि॥४॥दसणणाणुवदेसो सिस्सग्गहणं च पोसणं तेसिं । चरिया हि स ஒருருருருருர் Jain Education Alional For Private Personel Use Only jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy