________________
தOOOOOOGRESORROOOOOOO
परिभाषाविप्लवप्रसङ्गाच्चेति किमल्पीयसि दृढतरक्षोदेन ! अस्तु वा स्वभावसमवस्थानं ध्यानं, विरुन्ध्याच्च तत्प्रशस्तापि बाह्यक्रिया, तथाऽपि नेयं श्रामण्यव्यभिचारिणीत्याहजा खल सरागचरिया सावि य उस्सग्गमग्गसंलग्गा। मोत्तुं अववायपदं अइप्पसङ्गी परविसेसो ॥१
- या खलु सरागचर्या साऽपि चोत्सर्गमार्गसंलग्ना । मुक्त्वापवादपदं अतिप्रसङ्गी परविशेषः॥ १०॥ __ या खलु सरागचर्या स्थविरकल्पचर्या साऽपि समितिगुट्यादिपवित्रितापवादपदमसंस्तरणाद्युपनीतं विहायोत्सर्गमार्गसंलग्नैव प्रतिषिद्धप्रतिषेवणात्मकापवादस्वरूपाननुविद्धत्वात्, ननु सर्वश्रेयोमूलं शुद्धोपयोग एवोत्सर्गो न पुनः प्राच्या सरागचर्येति चेदत्राहातिप्रसङ्गी परविशेष इति, उत्तरोत्तरेषामपेक्षया पूर्वपूर्वेषामपवादत्वे उत्सर्गापवादपदयोरुत्कर्षापकर्षपर्यायत्वापत्तेन चैवमस्ति किं तु कारणापोद्यो नियम उत्सर्गः कारणिको विधिस्त्वपवाद इति ॥१०॥ अथ गूढाभिसन्धेरात्मनोपायशतसंपातमालोक्य निकृष्टं स्वाशयमुद्भावयन् परः शङ्कतेनणु बझंगं साहणमववाओ अन्तरङ्गमुस्सग्गो। जा पुण सरागचरिया समुच्चिआ णेव सुद्धाए ॥११॥
। ननु बाह्याङ्गं साधनमपवादोन्तरङ्गमुत्सर्गः । या पुनः सरागचर्या सा समुञ्चिता नैव शुद्धया ॥ ११ ॥ पडिसिद्धसेवणं पुण णो अववाओ फुडो अणायारो। ता वत्थाई गन्थो णो उस्सग्गो ण अववाओ॥१२॥
प्रतिषिद्धसेवनं पुनर्नापवादः स्फुटोऽनाचारः। तद्वस्त्रादिर्ग्रन्थो नोत्सर्गो नापवादः।।१२।। उत्सर्गानुरोधी खल्वपवादः, उत्सर्गश्च सर्वोपधिप्रतिषेधेनात्मद्रव्यमात्रप्रतिबन्धो विशिष्टकालक्षेत्रवशावसन्नशक्तेश्च
000000000000000000000000
Jain Education
For Private & Personal Use Only
www.jainelibrary.org