________________
अध्यात्म०
॥ ४ ॥
0660
330
उच्यते, आवश्यकादिव्यापाररूपव्यावहारिककायिकध्यानाभावात् कार्मणशरीरयोगाच्च लोपकरणतया नैश्चयिककायस्यैर्याभावाच्चेति ॥ ८ ॥ स्यादेतत् मोहक्षयेण तन्मूलभूत परद्रव्यप्रवृत्त्यभावाद्विषयविरक्ततयाऽधिकरणान्तराभावात् मनसो निरोधे तन्मूलचञ्चलत्वविलयादनन्त सहजचैतन्यात्मनि स्वभावे समवस्थानं ह्यनाकुलत्वसङ्गतैकाग्र्यसञ्चेतनतया ध्यान- (६) मुच्यते निश्चयतस्तदुक्तं " जो खविदमोहकलुसो विसयविरत्तो मणे णिरुम्भित्ता । समवट्ठिदो सहावे सो अप्पाणं हवदि झादा" तथा च कथं बाह्यक्रियासद्भावे परमाध्यात्मशुद्धिः समुज्जृम्भत इति, उच्यते
झाणं करणपयत्तो ण सहावो तण्ण जेण सिद्धस्स । इहरा ठाणविभागो कह सुक्कज्झाणभेआणं ॥ ९॥
ध्यानं करणप्रयत्नः न स्वभावस्तन्न येन सिद्धस्य । इतरथा स्थानविभागः कथं शुक्लध्यानभेदानाम् ॥ ९ ॥
करणानामेव सुदृढप्रवृत्त्याख्यस्तन्निरोधाख्यश्च व्यापारो ध्यानं न तूपदर्शितं स्वभावसमवस्थानं सिद्धानामपि ध्यानप्रसङ्गात् न च तेषां तदिष्टं यदाह भाष्यसुधाम्भोनिधिः “ जइ अमणस्स वि झाणं केवलिणो कीस तन्न सिद्धस्स । भन्नइ जन्न पयत्तो तस्स जओ ण य णिरुद्धत्तं” यदि तु सिद्धस्यापि स्वभावसमवस्थानरूपं नैश्चयिकं ध्यानमभिमतमेव तर्हि शुक्लध्यानभेदानां स्थानविभागः कथं सङ्गच्छते, यदाद्यपादद्वयं छद्मस्थस्यैव श्रेण्यारूढस्याग्रिमपादद्वयं निर्वाणगमनकाल एव केवलिन इति ॥ ९ ॥ अथ विषयविभागनियतं ध्यानमुक्तप्रयत्नरूपमेवास्तु नैश्चयिकं त्विदमेवेति चेन्न, तत्र धात्वर्थासंभवादनेकार्थतायाश्च संप्रदायपरतन्त्रत्वाद्यथाकथञ्चिद्विवक्षया च यावत् प्रशस्तशब्दवाच्यतायास्तत्रावकाशप्रसङ्गात्
Jain Education International
For Private & Personal Use Only
परीक्षा वृ०
॥ ४ ॥
www.jainelibrary.org