SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ 00000000000000000000000 दिगम्बराणां खल्विदमभिमतं 'यत्परममुपेक्षासंयम प्रतिपत्तुकामोऽपि तथाविधसामग्रीवशात् तं प्रतिपत्तुमक्षमस्तद्वहिरङ्गसाधनमात्रमिममापवादिकमुपधिमातिष्ठते, सर्वहेयवर्जितसहजरूपापेक्षितयथाजातरूपत्वेन बहिरङ्गलिङ्गभूताः कायपुद्गलाः ,श्रयमाणतत्कालबोधकगुरुगीर्यमाणात्मतत्त्वद्योतकसिद्धोपदेशवचनपुद्गलाः, तथाधीयमाननित्यबोधकानादिनिधनशुद्धात्मतत्त्वद्योतनसमर्थश्रुतज्ञानसाधनसूत्रपुद्गलाः, शुद्धात्मतत्त्वव्यञ्जकदर्शनादिपर्यायतत्परिणतपुरुषविनीतताभिप्रायप्रवर्तकचित्तपुद्गलाश्चेत्युक्तं च "उवगरणं जिणमग्गे लिङ्गं जहजादरूवमिदि भणिदं । गुरुवयणपि य विणओ सुत्तज्झयणं च पण्णत्तन्ति” ॥ वस्तुधर्मस्तूत्सर्ग एव न पुनरपवाद इति । तथा च यथोक्तोपधिसन्निधापितकायिका क्रियापि चेत्परमोपेक्षारूपां मानसी क्रियां विरुणद्धि तर्हि कथं नानुपयुक्तबाह्योपधिभारस्तां विरुन्ध्यादिति। अत्रोच्यते। विहितोपधियतना हि न ध्यानविरोधिनी प्रत्युत सैव मनोवाकायध्यानात्मिका । ननु मानसमेव ध्यानं श्रुतं न वाचिकं न वा कायिकमिति चेत्तत्किं “ भङ्गियसुअं गुणन्तो वट्टइ तिविहंमि झाणंमीति" सूत्रोक्तं न स्मरसि ? स्मरामि न तु श्रद्दधे ध्यै चिन्तायामिति धात्वर्थस्य कायिकादावसम्भवादिति चेत्तत्किं धातोरनेकार्थतां नातिष्ठसे ? काममस्मि तथा तिष्ठेन परमत्र तदर्थान्तरकल्पनप्रयोजनमुपलभ इति चेत्तत् किमुक्तसूत्रसमाधानं तव न प्रयोजनं ? ओमिति चेन्नास्तिकोऽसि? तथापि | केवलिनां काययोगनिरोधस्य ध्यानत्वमातिष्ठमानस्य क इवान्यः पन्थाः शरणमिति रहसि पर्यालोचय । अत एवेदं परिभाषन्ते 'सुदढप्पयत्तवावारणं णिरोहोव विजमाणाणं । झाणं करणाण मयंण उ चित्तणिरोहमेत्तागन्ति' । स्यादेतत् यदि सुदृढः कायप्रयत्नः छद्मस्थसंयतस्य ध्यानं तर्हि केवलिनां देशोनपूर्वकोटी यावत्कथं न ध्यानसम्भवः ? इति, -000000000000000000000000 Jain Educatio n al For Private Personel Use Only w ww.jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy