________________
॥ ३ ॥
अध्यात्म० तह परदवम्मि रई परिणामो रक्खणाणुबन्धो वा । दुहओ तणुसममुवहिं पासन्तो किं ण लज्जेसि ॥७॥ तथा परद्रव्ये रतिः परिणामो रक्षणानुबंधो वा । उभयतस्तनुसममुपधिं पश्यन् किं न लज्जसे ॥ ७ ॥ परद्रव्ये रतिर्हि कायव्यापारमात्रपरिणामो वा संरक्षणानुबन्धि रौद्रध्यानं वा विवक्षितमायुष्मता ? नेदं पक्षद्वयं युक्तं, यतनया तद्दोषपरिहारात्, अन्यथा शरीरेऽपि तुल्ययोगक्षेमत्वात् तदुक्तं " सारख्कणाणुबन्धो रोद्दज्झाणन्ति ते मई होज्जा । तुल्लमियं देहाइसु पसंत्थमिह तं तहेहावि " संरक्षणं हि सर्वैर्मारणाद्युपायैस्तस्करादिभ्यो निजवित्तस्य सङ्गोपनं तस्यानु| बन्धः सातत्येन चिन्तनं तदायतनत्वाच्च वस्त्रादिकं शस्त्रादिवत् त्याज्यमितिचेत् ! कथं तर्हि जलज्वलन मलिम्लुचश्वापदा| हिविष कण्टकादिभ्यः संरक्षणानुबन्धस्य तौल्या देहादयोऽपि देवानांप्रियैस्य न त्याज्याः ? अथ हेयतायामनिष्टसाधनत्वं प्रयोजकं नच मोक्षसाधनत्वमत्या संरक्षणानुबन्धः शरीरस्यानिष्टो वस्तुतः सविशेषणे इत्यादिन्यायान् मोक्षसाधनत्व - |मत्यनुबन्ध एव पर्यवस्यति न संरक्षणानुबन्ध इति चेत्तदिदं यतनया धार्य्यमाणे धर्मोपकरणेऽपि तुल्यमिति, स्यादेतत् माभूत् संरक्षणानुबन्धिरौद्रध्यानायतनतया वस्त्रादेरध्यात्मप्रतिबन्धकत्वं, तथापि मानसात्मैकाग्र्य संवेदनप्रतिबन्धककायव्यापारानुषङ्गितया तद्विरोधित्वं भविष्यतीतिचेन्निरस्तमेवेदं प्रथमपक्षप्रतिबन्द्यां तथाऽपि वस्तुस्थितिमाहजो किर जयणापुवो वावारो सो ण झाणपडिवक्खो । सो चेव होइ झाणं जुगवं मणयवणकायाणं ॥ ८ ॥
यः किल यतनापूर्वी व्यापारः स न ध्यानप्रतिपक्षः । प्रत्युत स एव भवति ध्यानं युगपन्मनोवचनकायानाम् ॥ ८ ॥
१ प्रशस्त्रः. २ देहे. ३ चोरः ४ मूर्खस्य.
3000000
Jain Education
For Private & Personal Use Only
परीक्षा वृ०
॥ ३ ॥
jainelibrary.org