SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Jain Education In 'मुच्छा आरम्भो वा असक्षमो तस्स । तह परदव्वंमि रई सा किण्ण तुहं सरीरेऽवि ॥ ६ ॥ या उपकरणे मूर्छा आरम्भो वाऽसंयमस्तस्य । तथा परद्रव्ये रतिः सा किं न तव शरीरेऽपि ॥ ६ ॥ यदि ह्युपधिसद्भावे विना यतनां सम्मूर्च्छा सम्मूर्च्छत्तर्हि शरीरसद्भावेऽपि कुतो नैतया भवितव्यं । अथ ममत्वपरिणामलक्षणा मूर्च्छा, ममत्वपरिणामश्च नाज्ञानलक्षणस्तस्य ज्ञानादेव नाशात्, किंतु प्राप्तेष्टवस्त्ववियोगाध्यवसानाप्राप्ततद| भिलाषलक्षणार्त्तध्यानरूपः, सोऽपि भोगादिकामनां विना शरीरसंस्कारविरहान्न सम्भवी, मोक्षसाधनत्वमत्यैव तत्परिपालॐ नात्, न च मोक्षसाधनत्वमत्यापि प्रवृत्तिरध्यात्मविरोधिनी निदानत्वादितिवाच्यं । निश्चयतस्तथात्वेऽपि व्यवहारतो मोक्षार्थितयैव शुभप्रवृत्तिसंभवात्, तथा च शरीरे न मूर्च्छति चेत्तदिदं अखिलं धर्मोपकरणेऽपि समं समाधानं, नह्युपकरणमेवैकान्ततो मूर्च्छाजनकं तदभावेऽप्यदान्तमनसां बहूनां चित्तविप्लवसम्भवात्तदुक्तं " यदसत्स्वपि जायेत मूर्च्छया चित्तविप्लव ” इति विप्रकृष्टेनापि च मूर्च्छाजननेऽतिप्रसङ्गः । स्वविषयरागसंबन्धेन हेतुत्वे नातिप्रसङ्ग इति चेत्तर्हि ॐ रागस्यैव मूर्च्छाहेतुता वास्तवी, तथा च निःस्पृहाणां शरीर इव धर्मोपकरणेऽपि न मूर्च्छति व्यवस्थितं । एवं तद्विषयकर्मप्रक्रमपरिणामलक्षण आरम्भोऽपि निरस्तः कायेऽपि तुल्यत्वात्, तत्र यतनया नारंभ इति चेदत्रापि किं न तथा, अत एव शुद्धात्मरूपहिंसन परिणामलक्षणोऽसंयमोऽपि न, नापि परद्रव्यरतिः शुद्धात्मतत्त्वविरोधिनी, यतनाया एव सर्वश्रेयोमूलत्वात् ॥ ६ ॥ अथ परद्रव्यरतिमेव विकल्प्य दूषयति 9000 जा उवगरणे For Private & Personal Use Only 300000000000000333900 Jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy