SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ अध्यात्म परीक्षावृ० प्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यम्" इत्यत्र श्रुतिद्वितीयेत्यादिना द्वितीयारूपाया एव श्रुतेर्ग्रहणात् , | अस्तु वा पदमेव श्रुतिः तथापि पक्षस्येव विशेषणस्यापि श्रुत्याऽग्रहणे न्यूनत्वमेव, वस्तुतो विवादापन्नत्वमपि मोक्ष सामग्रीसमवहितत्वपर्यवसन्नमेवेतरस्य दुर्वचत्वात्, तथा च प्रतिज्ञाया एव बलवत्प्रमाणेन बाधः, नहि मोक्षसामग्री| समवहिता न मोक्षभाज इति न विरोधपद्धतिपराहतम् । अपिच स्त्रीणां मोक्षो नपुंसकेभ्योऽधिकत्वात् पुरुषवदिति | सत्प्रतिपक्षोपि, एतेन न्यूनत्वं पुरुषदोषो नतु वस्तुदोषः, नचैतावतैव वादिपराजयात् कथापर्यवसानं, तत्त्वनिर्णिनीपायामदोषादित्युक्तावपि न क्षतिः॥ १६४ ॥ अथ पापप्रकृतिबाहुल्यहेतुं दूषयितुमाहपावाणं पयडीणं थीनिवत्तीइ बंधजणणीणं । सम्मत्तेणेव खए णो तासिं पावबहुलत्तं ॥ १६५॥ पापानां प्रकृतीनां स्त्रीनिर्वृत्तेर्बन्धजननीनाम् । सम्यक्त्वेनैव क्षये नो तासां पापबहुलत्वम् ॥ १६५ ।। __ यत्तावदुक्तं "मिथ्यात्वसहायेन महापापेन स्त्रीत्वस्य निवर्त्तनान्न स्त्रीशरीरवर्त्तिन आत्मनो मुक्तिरिति " तदयुक्तं, सम्य1 क्त्वप्रतिपत्त्यैव मिथ्यात्वादीनां क्षयादिसम्भवात् , आस्त्रीशरीरं तदनुवृत्तौ तस्याः सम्यक्त्वादेरप्यलाभप्रसङ्गात् , उक्तं च योगशास्त्रवृत्तौ-ननु महापापेन मिथ्यात्वसहायेन स्त्रीत्वमयते, नहि सम्यग्दृष्टिः स्त्रीत्वं कदाचिद् बनातीति कथं स्त्रीशरीरवर्तिन आत्मनो मुक्तिः स्यात्, मैवं, सम्यक्त्वप्रतिपत्तिकाल एवान्तःकोटिस्थितिकानां सर्वकर्मणां भावेन मिथ्यात्वमोहनीयादीनां क्षयादिसम्भवादिति ननु तथापि मा भूत्तासां सम्यग्दर्शनमहिना मिथ्यात्वादिक तथापि स्त्रीत्वसमर्जितः कामातिरेक एव मुक्तिप्रतिपन्थी, एवं च स्त्रियो न मुक्तिभाजः पुरुषापेक्षया तीव्रकामत्वात् EFFFFFFFFFFFFFFFFFC COCCC00000000000®®®®OE ॥९१॥ Jain Education Intel For Private Personel Use Only W inelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy