SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ अध्यात्म० IQच निर्जरामकर्वचारित्रं नाम स्वभावपरित्यागप्रसङ्गात् , एतेन ज्ञानमिव चारित्रं मोक्षे न निष्प्रयोजनमिति पूर्वपक्षोक्ता परीक्षा व प्रत्युक्तं, प्रकाशरूपज्ञानव्यापारस्य तदानीं सत्त्वेपि निर्जरारूपस्य चारित्रव्यापारस्याभावात् , प्रथमसमय एवैकहेलया ॥८४॥ सकलप्रकाशादुत्तरकालं ज्ञानस्य निष्प्रयोजनत्वमितिचेन्न, ज्ञेयाकारवैचित्र्येण तद्वैचित्र्यादत एव सिद्धेष्वपि त्रैलक्षण्यं व्यवतिष्ठते, चारित्रस्य तु न तदा कश्चिदुपयोग इति तत्त्वं, यदि च शुभपरिणामः सम्यक्त्वं शुद्धतरपरिणामश्च चारित्रमिति सम्यक्त्वजातीयमेव तदिष्यते न वीर्यजातीयं, तदा तद्वदेव तन्निरपेक्षं तत् स्यात् , इत्याह्यम् , किं च-सम्य-2 क्त्ववदेव यदि चारित्रं स्यात् तदा तद्वदेव तस्य भावतो यावदेष परिणामो न परिपततीति प्रतिज्ञा स्याद्यक्षावेशादिना श्रद्धानरूपमानसपरिणामस्येव प्रत्याख्यानरूपमानसपरिणामस्यापि परिक्षयसंभवात् अथ प्रतिज्ञेयश्रद्धानोपलक्षित सम्यक्त्वं विना स्थितिक्षयं यक्षावेशादिनापि न निवर्त्ततेऽन्यथा तन्निवृत्तौ चारित्रनिवृत्तेरावश्यकत्वात् , एवं प्रतिज्ञेय क्रियोपलक्षितं चारित्रमपि न तन्निवृत्तौ निवर्त्तते, तथा च प्रतिज्ञेययोस्तयोरसाजात्येपि तदुपलक्षितयोस्तयोस्तात्त्विकयोः साजात्यान्न दोषः इतिचेन्ननं क्रियापि न सामायिकप्रतिज्ञाविषयः,यावजीवनावधिककालन्यूनवृत्तित्वान्निरुद्ध-| योगाद्यवस्थायां तदभावात् , अपि च तात्त्विकमेव चारित्र भावश्रुतसङ्कल्पविषयः, अत एव जघन्यतस्तस्य समयमात्रं कालमानमुक्तं, भवान्त्यसमय एव तादृशसङ्कल्पसंभवात्ततः परं च तदुपरमात् , देशविरतेस्तु नानाभङ्गविकल्पकवलिततया न तथात्वमिति, एवं च भावश्रुतसङ्कल्पविषयकालनाशादेव सिद्भिगतावपि चारित्रस्य नाश इति युक्तमुत्प-16 श्यामः, एवं च यावज्जीवमेवेति सावधारणप्रतिज्ञापि व्याख्याता, जीवनविशिष्टकाल एव प्रतिज्ञा नतु तदुपलक्षिते 00000000000000000000 00:0060000000000000000 ॥८४॥ Jain Education a l For Private Personal Use Only w
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy