________________
रूपचारित्रमुपादास्यत इति न किञ्चिद्विरोत्स्यत इतिचेन्न, तथापि चरणदानादिलब्धीनां सादिसान्तत्वप्रतिपादकागमविरोधानुद्धारात्तासामपि व्यापाररूपाणामेव ग्रहणे योगनिरोधादेव तदुपक्षये शैलेश्यामननुवृत्तिप्रसङ्गादिति प्रपञ्चितमेव प्राक् , केवलमात्मस्वरूपतया चारित्रस्य सिद्धाननुवृत्तिनिवृत्तयेऽसौ प्रयासः, स च योगात्मेव चारित्रात्मनस्तदानीमननुवर्तिष्णुताभिधानात् फलेग्रहिरिति ॥१५४॥ अथोक्तेऽर्थेऽनुकूलमाह| एत्तो च्चिय सिद्धाणं खइयंमि नाणदंसणग्गहणं । समत्तजाइगहणे बहण दोसाण संकंती ॥ १५५॥
अत एव सिद्धानां क्षायिके ज्ञानदर्शनग्रहणम् । सम्यक्त्वजातिग्रहणे बहूनां दोषाणां संक्रान्तिः ॥ १५५ ॥ क्षायिके हि भावे सिद्धानां ज्ञानदर्शनयोग्रहणमस्ति, यदि च चारित्रमपि तेषामभविष्यत्तर्हि तदप्यभ्यधाजस्यत् , न चैवं सुखमपि तेषां क्षायिक न स्यात् क्षायिकभावे तस्यासंगृहीतत्वात् । “तेसि दसणं नाणं खइए भावे "क
इत्येव वचनादिति वाच्यम् , नच क्षायिकेष्वपरिभाषितस्य तस्याग्रहणमात्रेणाभावःसंभवात् , तर्हि तदन्तर्भूतं सम्यक्त्वमप्यगृहीतमिति तदपि न स्यादिति चेन्नात्र सामान्यसूत्रे तदग्रहणेप्यन्यत्र गतस्य तस्य त्यागायोगात्, चारि
त्रमप्यत्र गृहीतमितिचेन्न, सैद्धान्तिकैस्तदग्रहणात् प्रत्युत निषेधात् , ज्ञानग्रहणेन दर्शनस्यापि ग्रहणं, दर्शजनपदं च सम्यक्त्वपरं एवमवधारणोपपत्तिरित्यपि स्यात् , तर्हि सम्यक्त्वग्रहणादेव सजातीयतया चारित्रग्रह-15
णमपि स्यात्, न स्यात् , वीर्यविशेषरूपतया तस्य वीर्येणैव सजातीयत्वात् , "जह उल्ला साडीया" इत्यादिदृष्टान्तेन प्रयत्नविशेषादेव क्षिप्रतरकर्मक्षपणप्रतिपादनात्, निर्जरां कुर्वच्च वीर्य चारित्रमेव तस्य तद्व्यापारतयैव सिद्धेः, न
000000000000000000000000
Jain Education
For Private
Personal Use Only
lainelibrary.org