SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ रूपचारित्रमुपादास्यत इति न किञ्चिद्विरोत्स्यत इतिचेन्न, तथापि चरणदानादिलब्धीनां सादिसान्तत्वप्रतिपादकागमविरोधानुद्धारात्तासामपि व्यापाररूपाणामेव ग्रहणे योगनिरोधादेव तदुपक्षये शैलेश्यामननुवृत्तिप्रसङ्गादिति प्रपञ्चितमेव प्राक् , केवलमात्मस्वरूपतया चारित्रस्य सिद्धाननुवृत्तिनिवृत्तयेऽसौ प्रयासः, स च योगात्मेव चारित्रात्मनस्तदानीमननुवर्तिष्णुताभिधानात् फलेग्रहिरिति ॥१५४॥ अथोक्तेऽर्थेऽनुकूलमाह| एत्तो च्चिय सिद्धाणं खइयंमि नाणदंसणग्गहणं । समत्तजाइगहणे बहण दोसाण संकंती ॥ १५५॥ अत एव सिद्धानां क्षायिके ज्ञानदर्शनग्रहणम् । सम्यक्त्वजातिग्रहणे बहूनां दोषाणां संक्रान्तिः ॥ १५५ ॥ क्षायिके हि भावे सिद्धानां ज्ञानदर्शनयोग्रहणमस्ति, यदि च चारित्रमपि तेषामभविष्यत्तर्हि तदप्यभ्यधाजस्यत् , न चैवं सुखमपि तेषां क्षायिक न स्यात् क्षायिकभावे तस्यासंगृहीतत्वात् । “तेसि दसणं नाणं खइए भावे "क इत्येव वचनादिति वाच्यम् , नच क्षायिकेष्वपरिभाषितस्य तस्याग्रहणमात्रेणाभावःसंभवात् , तर्हि तदन्तर्भूतं सम्यक्त्वमप्यगृहीतमिति तदपि न स्यादिति चेन्नात्र सामान्यसूत्रे तदग्रहणेप्यन्यत्र गतस्य तस्य त्यागायोगात्, चारि त्रमप्यत्र गृहीतमितिचेन्न, सैद्धान्तिकैस्तदग्रहणात् प्रत्युत निषेधात् , ज्ञानग्रहणेन दर्शनस्यापि ग्रहणं, दर्शजनपदं च सम्यक्त्वपरं एवमवधारणोपपत्तिरित्यपि स्यात् , तर्हि सम्यक्त्वग्रहणादेव सजातीयतया चारित्रग्रह-15 णमपि स्यात्, न स्यात् , वीर्यविशेषरूपतया तस्य वीर्येणैव सजातीयत्वात् , "जह उल्ला साडीया" इत्यादिदृष्टान्तेन प्रयत्नविशेषादेव क्षिप्रतरकर्मक्षपणप्रतिपादनात्, निर्जरां कुर्वच्च वीर्य चारित्रमेव तस्य तद्व्यापारतयैव सिद्धेः, न 000000000000000000000000 Jain Education For Private Personal Use Only lainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy