________________
100000000000000000000000
तदुपचारान्यतरप्रतिसन्धानं न स्यादेकत्रैकदा विद्यमानानामेव धर्माणां कालादिभिरभेदवृत्त्युपचारान्यतराश्रयणेनैकधमप्रत्यायनमुखेन तावतां प्रत्यायनसंभवादित्याशङ्कयाहणय निच्छयस्स नाणे अभेयवित्ति कहं चरणविरहे। संतं चिय पडिवजइ फलेण जंसो असंतंपि॥१५३॥
न च निश्चयस्य ज्ञानेऽभेदवृत्तिः कथं चरणविरहे । सदेव प्रतिपद्यते फलेन यत्सोऽसदपि ॥ १५३ ।। का यद्यपि चारित्रं न तदानीं विद्यमानं तथाप्यनाश्रवलक्षणे तत्फले तदानीं विद्यमाने निश्चयेन तदभेदवृत्तिस्तदुपचारो का
वा प्रतिसन्धीयते, निश्चयेन फलवत्तयैव वस्तुनः सत्ताभ्युपगमात्, अत एव सदपि ज्ञानं विना विरतिलक्षणं फलं न ज्ञानं | असदपि वा तत्स्वमादावप्रमादिनः फलसद्भावाद्विद्यमानमेव, न चैवं वस्तुनः पुरुषविवक्षानुसारितापत्तिः, स्वरूपानुसारित्वेऽपि तस्य व्यपदेशविशेषस्य पुरुषविवक्षाधीनत्वात् , कथंचित्तदनुसारितायामपि स्याद्वादिनामदोषाच्च, एवं च चारित्रभिन्नत्वेन प्रतिसंहितस्यानाश्रवलक्षणस्य ज्ञानेऽभेदप्रतिसन्धानात् तत्र ताद्रूप्यप्रतीतिर्न विरुद्धाऽनयैव दिशा सिद्धेषु चारित्रग्राहकाणि प्रमाणानि समर्थितानि भवन्ति, नन्वेवं निश्चयतस्तेषां चारित्रं व्यवहारतस्तु नेत्यापन्नम् , तच्चास्माकमप्यभिमतं, निश्चयतस्तत्सत्त्वे व्यवहारतस्तदभावस्याकिञ्चित्करत्वात् , अन्यथा निश्चयतोऽन्तरात्मनि विद्यमानमपि परमात्मत्वं व्यवहारेण पराक्रियेत, पराक्रियेत च दुर्दिनाभिभूतस्य भास्वतो भास्वरालोकशालित्वं, उज्जीव्येत च निश्चयेन पराकृतमप्यात्मनो मूर्तत्वं स्वाभिमतमिति व्यवहारेण, तस्माद्वस्तुनः सत्तायां निश्चय एव प्रयोजको व्यवहारस्तु व्यपदेशमात्र एवेति चेन्न, उक्तदिशौपचारिकनिश्चयेन तत्सत्त्वेप्यनुपचरितनिश्चयेन तदभावान्न ह्यनुपचरित एवम्भूतस्त
000000000000000000000000
श्रवलक्षणस्य ज्ञानवान, कथंचित्तदनुसारितायामविवक्षानुसारितापत्तिः, कलं न ज्ञानं
JainEducational
For Private
Personal use only
painelibrary.org