SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ अध्यात्म० नामप्यवाधितमिति परास्तम्, तयोर्द्वयोः स्वतन्त्रत्वात्, अन्यथैकस्यातिरिक्तत्वेऽपरस्य तदभावरूपत्वे विनिगमनाविरहॐ प्रसङ्गात् ॥ १५१ ॥ अथ चारित्रस्य जीवलक्षणत्वात् कथं तत्परित्यागे सिद्धानां जीवलक्षणं समुज्जीवेदित्याशङ्कायामाहजं च जियलक्खणं तं उवइडं तत्थ लक्खणं लिंगं । तेण विणा सो जुज्जइ धूमेण विणा हुयासु ॥ १५२ ॥ ॥ ८१ ॥ Jain Education यच्च जीवलक्षणं तदुपदिष्टं तत्र लक्षणं लिङ्गम् । तेन विना स युज्यते धूमेन विना हुताश इव ।। १५२ ।। " नाणं च दंसणं चेव चरितं च तवो तहा । चीरिअं उवओगो अ एयं जीयस्स लक्खणं " इत्यनेन चारित्रस्य जीवलक्षणत्वप्रतिपादनात् कथं तत्परित्यागे सिद्धानां जीवत्वम्, इत्यत्रेदमुत्तरं यदत्र लक्षणशब्दो लक्ष्यतेऽनेनेति व्युत्पत्त्या लिङ्गार्थकः, एवं च चारित्रतपसी जीवस्य लिङ्गे अभूतांन ते विनाऽपि सिद्धानां किंचित् क्षूयते, लिङ्गं विनापि ॐ लिङ्गिनः संभवात् न च नैर्लक्षण्यापत्तिः, असाधारणस्योपलक्षणस्य जागरूकत्वात्, अत एवान्तरङ्गं तलक्षणमनूद्यैव बहिलक्षणाभिधानायैतद्गाधाधिकारः, युक्तं चैतत्, अन्यथा चेष्टादीनामपि जीवलक्षणत्वेन प्रसिद्धत्वात्, तद्विरहिणां सिद्धानां नैर्लक्षण्यप्रसङ्गात्, बहिर्लक्षणमेवेदं नत्वान्तरङ्गमितिचेत्तदिदमावयोः समानं, चेष्टाया बहिस्त्वं शरीरपरिणामित्वरूपं सङ्गच्छते न तु चारित्रेऽपीतिचेन्न, बहिर्विज्ञायमानत्वस्यासार्वदिकभावत्वस्य वा बहिस्त्वस्योभयत्र तुल्यत्वात् यच्च व्यव| दानाश्रवचेष्टाप्रतिपन्थिपरिणामा एव तपश्चारित्रचेष्टा नैश्चयिक्यः सिद्धानामबाधिता एवेति कश्चित्, तदपि न, तत्त्वतस्ता| दशपरिणामानां तेष्वभावात्, तत्कर्माभावेषु तत्त्वविवक्षायामुपचारप्रसङ्गात्, न च तादृशोऽप्युपचारः प्रामाणिको, विनागमं तस्य निर्मूलत्वादिति दिग्॥ १५२ ॥ नन्वेवं सिद्धानां वस्तुतः सच्चारित्राभावे निश्चयनयेन ज्ञाने ज्ञानदर्शनचारित्राभेदवृत्ति For Private & Personal Use Only परीक्षा वृ० ॥ ८१ ॥ jainelibrary.org
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy