SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ OOOOOOOOOGSPOOOOOOOO कारणभावापन्नयोस्तयोरुत्पादनाशयोरेकदा विरोधात्, नच मोक्षोत्पत्त्यनन्तरमेव चारित्रनाशाभ्युपगमान्न दोष इति वाच्यम्, “तस्सोदइयाईया" इत्यादिनौदयिकादिभावनाशसमकालमेव क्षायिकभावनाशोपदेशात्, इति चेदुच्यतेविगच्छद्रूपस्यापि तस्य कुर्वद्रूपत्वेन विनाशनिष्ठेन करणनिष्ठाप्यविरुद्धा, नच विरोधः, स्याद्वादाश्रयणात् , तत्त्वं पुनर्गम्भीरस्यार्थस्य विशिष्टश्रुतविदो गम्यमिति ध्येयम् ॥१५०॥ ननु सिद्धौ चारित्राभावे चारित्रावरणकर्मणः पुनर्बन्धप्रसङ्गः, अचारित्रस्य सतो जन्तोस्तद्वन्धकत्वनियमादित्याशङ्कामपनिनीषुराहनय चरणमोहबन्धो सिद्धाणं अचरणाण संताणं। अविरइपच्चइओ सो अइप्पसंगो हवे इहरा ॥१५१॥ । न च चरणमोहबन्धः सिद्धानामचरणानां सताम् । अविरतिप्रत्ययिकः सोऽतिप्रसङ्गो भवेदितरथा ॥ १५१ ॥ न खल्वचारित्रत्वेन सिद्धानां चारित्रमोहनीयकर्मबन्धप्रसङ्गोऽविरतिप्रत्ययिकत्वात्तस्य, यत्किञ्चित्कारणमात्रेण तद्धजान्धे चारित्रमोहकर्मपुद्गलानां सिद्धावपि संसर्गसत्त्वेन तद्वन्धप्रसङ्गादविरत्यभावात्तदभावश्चावयोः समानः, एतेन सिद्धा-13 श्चारित्रमोहनीयबद्धारः, अचारित्रात्मत्वान्मिथ्यादृष्टिवदित्यपास्तम्, अप्रयोजकत्वाद्धेतोरविरतिप्रयुक्तसाध्यव्याप्युपजी|वित्वात्, अचारित्रमेवाविरतिर्नाधिकेतिचेन्न, चारित्रमोहनीयकर्मोदयजन्यत्वेनाविरतिपरिणामस्यातिरिक्तत्वात् , अचारित्रमेव तजन्यमितिचेन्न, तस्याभावरूपत्वेनाजन्यत्वात्, मास्तु जन्यत्वं तथापि तेनाविरतिप्रत्ययकर्मबन्धो निर्वाहयिष्यत इति चेन्नाविरतेः कर्मोदयजन्यत्वेनोपदेशात्, वस्तुतो हिंसादिपरिणामरूपाया अविरतेस्तत्त्यागपरिणामरूपा-16 याश्च विरतेः स्वसंवेदनेनैव वैलक्षण्यं स्फुटतरमीक्षामहे, एतेनाविरतरतिरिक्तत्वे तदभाव एव चारित्रमस्तु, तच्च सिद्धा-16 000000000000000000000000+ Jain Education a l For Private & Personal Use Only
SR No.600058
Book TitleAdhyatmamatpariksha Swopagnyavruttyupeta
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages240
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy