________________
00000000000000000000000
उज्जुसुयणयमएणं सेलेसीचरमसमयभावित्ति। अंतसमओ चिय जओ हेऊ हेउस्स कजंमि ॥१५०॥
. ऋजुसूत्रनयमतेन शैलेशीचरमसमयभावी । अन्तसमय एव यतो हेतुहेतोः कार्ये ॥ १५० ॥ यत्तावदक्तं “सो उभयक्खयहेऊ सेलेसीचरमसमयभावी जो " इत्यादिवचनात् शैलेश्यवस्थाचरमसमयोत्पदिष्णुमोक्षहेतरक्षयश्चारित्राख्यो धर्मः सिद्ध्यतीति, तत्र एतद्वचनस्य ऋजुसूत्रनयानुरोधित्वात्तेन च कारणान्त्यसमयस्यैव कार्यजनकत्वस्वीकारादवस्थितचारित्रस्यैव चरमक्षणक्रोडीकृतात्मनो मोक्षहेतुत्वप्रतिपादनात्, अयं हि उत्तरकालावस्थायिनोऽतादृशस्य वा हेतोश्चरमक्षणमेव कार्यक्षममाद्रियते, न तु तस्योत्तरकालावस्थितिमप्यपेक्षत इति नावस्थितचारित्रस्याप्यक्षयत्वसिद्धिः, तस्य च क्षणस्य क्षणसन्तानाद्भेदविवक्षायां "सेसो पुण” इत्यादौ ततः प्राक्तनचारित्रस्य भेदप्रतिपादनेऽपि न दोषः, कार्योत्पत्तिसमयनश्वरस्य कार्यकालसम्बन्धो न स्यादिति तु रिक्तं वचः, कारणतौपयिकस्या निरुपचरितस्यानन्तरानन्तरिभावसम्बन्धस्याप्रत्यूहत्वाब्यवहितपूर्ववर्त्तिनां तु व्यवधानादेवानेन कारणतानभ्युपगमा-10 त्केवलं व्यावहारिकव्यवधानान्नैश्चयिक व्यवधानं सूक्ष्ममित्येव विशेषः, इदं च व्यवहारान्तर्भाविनिश्चयाभिप्रायेणोक्तम् , शुद्धनिश्चयाभिप्रायेण तु कार्यान्वयव्यतिरेकप्रतियोगिन एव कारणत्वात् कारणान्त्यसमय एव कार्योत्पत्तिः, क्रियमाणं कृतमिति वचनात् , न च क्रियमाणस्य कृतत्वे कृतकरणासमाप्तिः, द्वितीयादिक्षणेषु क्रियाया एवाभावात्तत्समाप्तेः, न च यादृशव्यापारवतां दण्डादीनां पूर्व सत्त्वं तादृशानामेव तेषां क्वचिद् घटोत्पत्त्यनन्तरमपि सत्त्वे पुनस्तदुत्पत्तिप्रसङ्गः, स्थूलतत्सत्त्वेऽपि सूक्ष्मक्रियाविगमात्, न च तथापि दीर्धेऽपि क्रियाकाले घटादिकार्यस्यादर्शनान्न
0000000000000000000000004
Jain Education
a
l
For Private 3 Personal Use Only
w.jainelibrary.org
A