________________
T
अध्यात्मक
॥७९॥
000000000000000000000000
सर्वतः परिभ्रमेयुः, अपि तु अविरतिरूपास्थैर्यप्रतिपन्थिनमात्मनः स्थैर्यपरिणाममेव चारित्रमाचक्ष्महे; न च तद्योगा परीक्षावृ० निरन्ध्युरपि तु मोह एव, कथं तर्हि योगानां स्थिरभावश्चारित्रं, उच्यते, अन्तर्भावितैकदेशनिवृत्तिलक्षणे सम्यक्प्रवृत्तिरूपे तत्र सुप्रणिहितानां तेषामप्रमादपर्यवसन्नत्वेनोपकारित्वात् , अथवा योऽयं स्थिरभावो मिथ्यात्वाविरतिकषाया-16 न्मूलतो निर्मूलयति, स तावद्योगानपि बन्धहेतून्मूलतो निर्मूलयति, तमशक्नुवन् तेषां स्थिरीकरणव्यापारेण तेषां स्थिरीभाव इत्युच्यते, एतेन योगपरिणामरूपत्वे चारित्रस्य स्वरूपतो निराश्रवत्वं न स्यादिति परास्तम्। योगस्यातथात्वेऽपि तत्परिणामरूपस्य तस्या(स्य)तथात्वात् , न खलु परिणामिनि काश्चनेऽविद्यमानकुण्डलत्वं तत्परिणामरूपे कुण्डलेप्यनुवर्तत इति, यदपि स्वभावे समवस्थानं चारित्रं तच्च सिद्धानां युक्तमिति केषांचिन्मतं तदयुक्तम् , यतः स्वभा-12 वभूतस्य चारित्रस्य सिद्धौ तत्र समवस्थानमात्मनः सिद्ध्येत् , तत्सिद्धौ च तत्सिद्धिरित्यन्योन्याश्रयात् , अन्यथा ज्ञानदर्शनचारित्रस्वभावे समवस्थितस्याविरतसम्यग्दृष्टश्चारित्रप्रसङ्गात् , अथ सर्वसावद्यत्यागपरिणामाभिव्यङ्गयः स्वभावविशेषश्चारित्रमितिचेत्तह्यसौ स्वभावविशेषः स्थिरभावो वेति नाम्येव नो विवादो नत्वर्थे, केवलं स स्वभावः सिद्धिगतावनुवर्तते नतु स्थिरभाव इत्यवशिष्यते तत्र चास्माकं सिद्धान्तोवलम्बनं न तु भवतामिति निरालम्बने वस्तुनि कःकदा-12 ग्रहः, यच्चात्ममात्रापेक्षिणी क्रिया चारित्रमिति मतम् , तदपि न आत्मातिरिक्तहेत्वनपेक्षक्रियाया आत्मान्तर्भावितहेतुसमाजा- H ॥७९॥ धीनक्रियायावा तदर्थत्वेऽविरतस्य क्षायिकसम्यग्दृष्टश्चारित्रप्रसङ्गात् , अन्यादृशविवक्षायामुक्तपर्यवसानादितिदिग् ॥१४९॥ | यत्तु मोक्षोत्पत्तिसमयनश्वरस्य चारित्रस्य मोक्ष प्रति नैश्चयिकी कारणतान स्यादित्युक्तं तद्विपरीतमेवेति प्रदिदर्शयिषुराह
GOOD000
in Educh an in
For Private & Personal Use Only
Mininelibrary.org