________________
0000000000000000000000000
द्विलये तद्विलयात्, न चैवं भगवतां शारीरबलचयापचयवच्चारित्रस्यापि तत्प्रसङ्गः, नामकर्मजन्यस्य शारीरबलस्य तथात्वेऽपि वीर्यस्यातथात्वात, अत एवोक्तं अनन्तवीर्यत्वे सत्यपि भगवतां शारीरबलापचय इति, नन्वेवं शारीरे बले योगानां हेतुतास्तु न तु वीर्ये इति वीर्यविशेषरूपं चारित्रं न योगजन्य इति चेन्न, सामान्यतो हेतुताग्राहकस्य प्रमाणस्य बलवत्त्वात् , अस्तु वा तथा तथाप्यौदयिकादिभाववत् क्षायिकस्यापि तस्य चरमभावनाशकसामग्र्यैव | नाशः, किमत्र कुर्मो यत्र बलवानागमः, नन्वेवं सयोगिकेवलिनां ज्ञानदर्शनचारित्ररूपरत्नत्रयसाम्राज्यात्तदानीमेव मुक्त्यवाप्तिप्रसङ्ग इति चेन्न, चरमसमयोपलक्षितज्ञानक्रिययोरेव मुक्तिहेतुत्वादनन्यगत्या तथाहेतुत्वकल्पनात्, अथवान्तक्रियाद्वारा चारित्रस्य हेतुत्वं साक्षात् दण्डस्येव घटादौ स्वजन्यभूमिद्वारा तस्याश्च तदानीमभावन्न दोषः, न चैवं चारित्रस्य चरमकारणत्वं न स्यात्, इष्टत्वात् “सवणे नाणे य” इत्यादिना व्यापारव्यापारिभावेनैव हेतुहेतुमद्भावोपदर्शनात् , परमचारित्रत्वेनैव मोक्षहेतुता, पारम्यं च न वैजात्यं, किंतु वैधर्म्यम् , स च धर्मो|ऽन्तक्रियादिरूपश्चारित्रस्यैवोपाधिरिति तमेवासौ विशेषयति नतु ज्ञानादिकमिति नातिप्रसङ्गः, अत एवोपाध्युपा| धिमतोरभेदविवक्षयान्ते क्रियापि चारित्रमित्युच्यते, एवं च योगजन्यत्वादिकं विशुद्ध्यादिकं चोपाध्यंशमादाय पर्यवस्यतीति तत्र तत्र विवक्षावशेन वैचित्र्योक्तिरपि नासङ्गतिमतीत्यपि युक्तमुत्पश्यामः, यदप्युक्तं "परमस्थैर्यरूपं चारित्रं चाञ्चल्यकारिणो योगा निरन्ध्युरिति” तदप्ययुक्तं, नखल्वात्मप्रदेशानामेकरूपेणैकत्रावस्थानरूपं स्थैर्य चारित्रमभिधीयते येन तद्योगा निरन्ध्युः, यद्बलात्कार्मणशरीरोपतप्तस्य जीवस्य प्रदेशास्तीबदहनकथ्यमानक्षीरनीरप्रदेशा इव
000000000000000000000000
Jan Eduent an inte
For Private & Personal Use Only
iainelibrary.org